________________
प्रमाणप्रकरणम् मतान्तरेण धर्मपदार्थस्य निरूपणं तत्खण्डनं च । कापिलास्तु अन्तःकरणस्य बुद्धवृत्तिविशेषमाहुः, आर्हताः पुण्यपुद्गलान्. धर्मस्वेन व्यपदिशन्ति, शाक्यभिक्षवश्चित्तवासनां धर्ममाचक्षते, वृद्धमीमांसकाः यागादिकर्मनिर्वयमपूर्व नाम धर्मममिवदन्ति, यागादिकमेव शाबरा ब्रवते, वाक्यार्थ एव नियोगात्मा ऽपूर्वशब्दवाच्यो धर्मशब्देन स एवोच्यते इति प्राभाकराः कथयन्ति, तत्र पुण्यपुद्गलवृत्तिपक्षयोः कपिलाहद्ग्रन्थकथितयोस्तन्म. तनिरासादेव निरासः, आत्मनश्च समर्थयिष्यमाणत्त्वात्तस्यैव वासना न चेतस इति सौगतपक्षो ऽप्ययुक्तः, स्वर्गयागान्तरालवर्तिनश्च स्थिरस्य निराधारस्यापूर्वस्य निष्प्रमाणकत्वाज जरज्जैमिनीयप्रवादो ऽप्यपेशलः, अपि च फलस्य वा का चिदुत्पद्यमानदशा यागस्य वा शक्तिरग्निशब्देनोच्यते न चानियोग वाक्या र्थ एवापूर्वशब्दवाच्यः तस्योपरिष्टादपाकरिष्यमाणत्वात् , नापि यो यागमनु. तिष्ठति तं धार्मिक इत्याचक्षते इति यागादिसामानाधिकरण्येन प्रयोगात्स एव. धर्मशब्दवाच्य इति युक्तं वक्तुम् , तस्य क्षणिकत्वेन कालान्तरे फलदातृत्वानुप. पत्तेः सामानाधिकरण्यप्रयोगो ऽपि चैकान्ततो नास्त्येव ।
यागदानादिना धर्मों भवतीत्यपि लोकिकाः।
प्रयोगाः सन्ति ते चामी संस्क्रियापक्षसाक्षिणः ।। एवं यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्निति वैदिकोपि प्रयोगः तद्विषय एव व्याख्येयः तस्य स्थायित्वेन कालान्तरे फलदानयोग्य. तोपपत्तेः।
संस्कारो नृगुणः स्थायी तस्माद्धर्म इति स्थितम् ।
तस्माच फलनिष्पत्तन.चित्रादौ मृषार्थता ॥ यदपि यज्ञायुधिवाक्ये प्रत्यक्षविरुद्धत्वमुपपाद्यते स्म भस्मीभावोपलम्भाकायस्येति तदप्यसमीचीनम् , एष इति शरीराभेदोपचारेणात्मन एव निर्देशात्तस्य च स्वर्गगमनं भवत्येव गमनं च तदुपभोग एव तस्योच्यते यथा शरीरा. दियोगवियोगौ जन्ममरणे इति न तु व्यापिनः परिस्पन्दात्मकक्रियायोग उपप. द्यते ज्ञानचिकीर्षाप्रयत्नसमवायश्च तस्य कर्तृत्वमिति वर्णयिष्यते, यज्ञायुधस. म्बन्धो ऽपि स्वस्वामिभावादिस्तस्यैव व्यापकत्वाविशेषे ऽपि व्यवस्थयोपपद्यते इति न कश्चिदत्र विरोधः, तस्मात्सर्वत्र निरवकाशमनृतत्वादिदूषणम् ।
वेदे व्याघातादिदोषाभावः । यो ऽपि हवनकालविधौ व्याघातदोषो दर्शितः सो ऽपि न दोष एव
तत्रानुष्ठानभेदेन कालत्रितयचोदनात् । यो यस्य चोदितः कालो लङ्घनीयो न तेन सः ॥