________________
२५६
न्यायमञ्जर्याम्
ततश्चान्यतमं कालमभ्युपेत्यैनमुज्झतः । निन्देति न विरोधो ऽत्र कश्चिद्विधिनिषेधयोः ॥ अभ्यासे पौनरुक्त्यं च कार्यार्थत्वाददूषणम् ।
संपाद्यं पाञ्चदश्यं हि सामिधेनीषु चोदितम् ॥
इममहं पञ्चदशारेण वष्त्रेणापबाधे यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म इति श्रूयते एकादशसामिधेन्य ऋचः पठ्यन्ते तत्राभ्यासमन्तरेण पाञ्चादश्यं नाव कल्पते इत्येवमवश्यकर्त्तव्यो ऽभ्यासः स चायमनियमेन प्राप्तो वचनेन नियम्यते प्रथमेात्तमे ऋचौ त्रिरुच्चारणीये इति तस्मात्तत्प्रयोजनार्थत्वान्न पुनरुक्ततादोषः ।
अभ्यासे फलरहिते हि पौनरुक्त्यं दोषः स्यादिह तु न तस्य निष्फलत्वम् । व्याघाताऽनृतपुनरुक्ततादि तस्माद्वेदस्य श्लथयति न प्रमाणभावम् ॥ इयं च वाक्यार्थविचारणा ऽपि प्रामाण्यसिद्धयौपयिकीति मत्वा । चक्रे स्वशास्त्रे मुनिनेह वेदप्रामाण्यनिर्वाहरणदीक्षितेन ॥
अर्थवादवाक्यमूलक - वेदप्रामाण्याक्षेपः ।
ननु नाद्यापि वेदस्य भवद्भिर्निपुणैरपि । स्वदेहसंभवा दोषा निखिलाः परिपिब्जिताः ।
तथा हि सो ऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम् प्रजापतिरात्मनो वपामुदखिदत्तामग्नौ प्रागृहात् ततो ऽजस्तूपर उदगात् देवा वै देवयजनमध्यवसाय दिशा न प्राजानन्नित्येवमादीनामर्थवादानां किं यथाश्रुतवस्तुपरत्वमुत तेभ्यः कार्यरूपार्थोपदेशपरिकल्पनम् उत लिङादियुक्तवाक्यान्तरप्रतिपाद्यमान कार्य रूपार्थौपयि कत्वमिति चिन्त्यम्, सर्वथा च प्रमादः, स्वरूपपरत्वे तावत्प्रमाणान्तरविरुद्धाथोंपदेशादप्रामाण्यमेवावतरति रोदनवपात्खेदन दिङ्मोहादेरर्थस्य तथात्वे निश्वयाभावात् ।
किं च स्तेनं मनेो ऽनृतवादिनी वागित्येवं जातीयकानामर्थवादवाक्यानां ferngha प्रमाणान्तरविरुद्धार्थप्रत्यायकत्वम् न हि निसर्गत एव सर्वप्राणिनामनृतवादिनी वाग्भवति स्तेनं वा मनः ।
अपि च धूम एवाग्नेर्दिवा ददृशे नाचिस्तस्मादचिरेवाऽग्नेर्नकं ददृशे न