________________
प्रमाणप्रकरणम्
२५७
धूम इति प्रत्यक्षविरुद्धमिदमभिधीयते नक्तंदिनं द्वयोरपि इन्द्रियार्थसन्निकर्षे सति ग्रहणात् ।
किं च एतन्न विद्मो यदि ब्राह्मणाः स्मोऽब्राह्मणा वेति ब्राह्मणजातेरुपदेशसहायप्रत्यक्षगम्यत्वात्तविरुद्ध एषो ऽर्थवादः शास्त्रविरोधो ऽप्यस्ति को ह वै तद्वेद यदमुष्मिल्लोके ऽस्ति वा न वेति, शास्त्रे स्वर्गादिफलानां ज्योतिष्टोमादिकर्मणामुपदेशात्केयमनवल्कृप्तिः ।
अपि च गर्गत्रिरात्रब्राह्मणमधिकृत्य श्रूयते शोभते ऽस्य मुखं य एवं वेदेति न हि कस्य चिदेवं विदतो मुखं शोभते इति प्रत्यक्षविरोधः ।
अन्यकर्मानर्थक्यशंसी च कश्चिदर्थवादो भवति पूर्णाहुत्या सर्वान्कामान. वाप्नोति पशुबन्धयाजी सर्वांल्लोकानभिजयति तरति मृत्युं तरति पाप्मानं तरति ब्रह्महत्यां यो ऽश्वमेधेन यजते यश्चैवं वेदेति यदि पूर्णाहुत्यैव सर्वकामावाप्तिः पशुबन्धयागेनैव सर्वलोकजयः अश्वमेधवेदनेनैव तत्फलावाप्तिः तत्किमर्थमन्यकर्मोपदेशः, उपदिष्टान्यपि तानि बहुक्लेशसाध्यानि कर्माणि व्यर्थानि भवेयु. रनेनैव लघुनापायेन तत्फलप्राप्तेर्दर्शनात् ।।
अपि च न पृथिव्यामग्निश्चेतव्यो नान्तरिक्षेन दिवीति वेदे चयननिषेध एवात्र भङ्गया भवेदिवि चान्तरिक्षे च तावञ्चयनप्रयोग एव नास्ति किं तनिषे. धेन पृथिवीचयननिषेधार्थ च यद्वाक्यं तच्चयनप्रतिषेधार्थमेव भवेत् , अपृथिभ्यः धिकरणस्य चयनस्यानुपपत्तेः, __अपि च यजमानः प्रस्तर आदित्यो यूप इत्येवंजातीयकानां प्रत्यक्षविरुद्धार्थाभिधायिनामर्थवादानां का परिनिष्ठेति, तस्मान्न स्वरूपपरत्वं तेषामुपपद्यते,
नापि तेभ्य एव कार्यरूपार्थपरिकल्पनमुपपन्नम् अशक्यत्वात् , सो ऽरोदीद्यदरोदीत्तद्द्रस्य रुद्रत्वमित्यत्र कार्य कल्प्यमानमेवं कल्प्येत रुद्रः किल रुरोद अतो ऽन्येनापि रोदितव्यमिति तच्चाशक्यम् प्रियविप्रयोगजनितसंतापवशेन हि वाष्पमोचनं रोदनमुच्यते न तच्चादनापदेशात्कतं शक्यते, प्रजापतिरात्मनो वपामुच्चिखेद तस्मादन्या ऽप्येवमुखिदेदात्मनो वपामिति दुरनुष्ठानो ऽयमर्थः को हि नामात्मनो वपामुत्खिदेत् कस्य वा वपाहामे सति समनन्तरमेव अजः पशुस्तूपर उद्गच्छेद् इति देवा दिशा नाज्ञासिषुरतो ऽन्यो ऽपि न जानीयादिति अशक्योपदेशो न हि दिङ्मोहो नामोपदेशात्कर्तुं शक्यः, न च सर्वस्मादर्थवादाद्विधिः कल्पयितुं शक्यः इति मध्यमो ऽपि न सत्पक्षः।
नापि तृतीयः पक्षः संभवति वाक्यान्तरविहितकार्यरूपार्थोपयिकत्वं हि तदुपयोगिद्रव्यदेवतादिविधानद्वारकं भवति यथा ऽग्निहोत्रं जुहोतीत्यत्र दध्ना जुहोति पयसा जुहोतीति द्रव्यविनियोगविधेर्यदग्नये च प्रजापतये च सायं जुहोति देवताविधेर्वा, न चायमर्थवादेषु प्रकारः संभवति न चैभिः बीहानवह
३३ न्या०