________________
१५८
न्यायमचर्याम् न्ति ब्रीहीन प्रोक्षतीतिवद्दृष्टा ऽदृष्टा वा का चिदितिकर्तव्यतोपदिश्यते तस्मान्न तेषां तदोपयिकत्वम् । _ ननु प्रेक्षावतां प्ररोचनातिशयकरणेन प्रवृत्त्युत्साहमावहन्तो ऽर्थवादास्तदुपयोगिनो भविष्यन्ति, नैतदपि सम्यक् , प्रवृत्त्युत्साहो हि केषां चिन्मते निरपेक्षशब्दप्रत्ययादेव सिद्धयति अस्मन्मते तु तत्प्रणेतृपुरुषप्रत्ययादिति किं प्ररोचनया, एवंकाम इदं कुर्यादित्युक्ते यस्तत्र न प्रवर्तते स प्ररोचनयापि न प्रवर्ततैवेति यत्किं चिदेतत् , तदेवं प्रकारत्रयेणाप्यर्थवादपदानामनन्वयात् एकदेशाक्षेपेण सर्वाक्षेप एव क्रियते इति अप्रमाणं वेदः।
ननु यावत्येव प्रमाणान्तरविरुद्धत्वमुपलभ्यते तावत्येवाप्रामाण्यमस्तु सर्वत्र तु कुतस्त्या तदाशङ्केति, मैवम् तत्सामान्यादन्यत्राप्यनाश्वासः, मीमांसकपक्षे हि अर्थवादरहितकेवलवेदग्रन्थानुपलम्भात् तदनुषङ्गण सर्वत्र सापेक्षत्वमवतरति, नैयायिकमते तु वेदप्रणेतुरीश्वरस्य क चिद्वितथवादित्वे दृश्यमाने कथमन्यत्र सत्यवादितायां दृढः प्रत्ययो भवेदित्यप्रामाण्यं सर्वत्रेति ।
अर्थवादवाक्यमूलकस्य वेदप्रामाण्याक्षेपस्य परिहारः ।
अत्राभिधीयते, विध्येकवाक्यतयैव भूम्ना तावदर्थवादपदानि पठ्यन्ते वाय. व्यं श्वेतमालभेत भूतिकामः वायुवै क्षेपिष्ठा देवता इत्यता यद्यपि क्रिया नावगम्यते नापि तत्संबद्धः कश्चिदर्थः तथाऽपि विध्युद्देशेनैकवाक्यत्वं प्रतीयते भूतिकाम इत्येवमन्ते विध्युदेशस्तेनैकवाक्यभूतो वायुर्वक्षेपिष्ठेत्येवमादिः कथमेकवाक्यभावः पदानां साकाङ्क्षत्वात् ,
ननु भूतिकाम इत्येवमन्तेन वाक्येन विधेयं विहितम् उत्पादितं प्रतिपत्तरनाकाङ्क्षत्वं कृतं च शब्दकर्तव्यमिति किमनेन क्षेपिष्ठेत्यादिना प्रयोजनम्, तदर्थस्यैव स्तुतिरिति ब्रूमः । __ननु स्तुत्या किं प्रयोजनम् स्तुतो ऽस्तुतश्च तावानेव सो ऽर्थः, मैवम् , स. स्तुतिपदे हि वाक्ये स्तुतिपदसहितं विधायकं विधायकं भवति किमिदानीं केवलं लिङादियुक्तं वाक्यं न विधायकमुच्यते यदि स्तुतिपदानि न श्रूयन्ते तद्बाढं भवति विधायकम् , एतेषु च सत्सु तत्सहितं तद्विधायकं भवति न केवलं तथा प्रतीतेः, स्तुतिपदसंबन्धे सति भिन्नवाक्यता मा भूदिति विधिपदेन च स्तुति. पदेन च संभूयार्थों विधीयते तथा ऽवगमात् , अन्यथा हि प्रतीयमानः पदार्थान्वयस्त्यज्येत वाक्यभेदो वा कल्प्येत तस्मान्न स्तुतिपदानामानर्थक्यम्,
ननु केवलस्यापि विधिवाक्यस्य सामथ्योकिमर्थं स्तुतिपदानि प्रयुज्यन्त इति, उच्यते, अपर्यनुयोज्यो जैमिनीयानां भते शब्दः अस्माकं च भगवानीश्वरः उक्ते सति प्रतिपत्तारो वयं वेदस्य न कर्तारः, प्रतिपत्तौ च क्रमो दर्शितः, एवं च