________________
प्रमाणप्रकरणम्
२५६
यद्यपि द्रव्यदेवतेतिकर्तव्यताविधानद्वारकमङ्गविधिवदर्थवादवाक्यानां कार्योपयिकत्वं नास्ति तथापि प्रतीत्यङ्गत्वं न निवार्यते, अत एव प्रामाण्योपयोगित्वमाचक्षते न प्रमेयापयोगित्वम् , केवलविधिपदश्रवणे हि न तदाद्रियन्ते यज्वानः, तत्र वि. धिविभक्तेः शक्तिरवसीदति तां निमज्जन्तीमिवार्थवादजनितकर्मप्रशिस्त्यप्रत्यय उत्तभ्नाति सर्वजिता यजेतेत्यतो न तथाविधः श्रद्धाऽतिशयो भवति, यथाविधः सर्वजिता वै देवाः सर्वमयजन्सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेवैतेन सर्व जयति इत्यर्थवादपदेभ्यः, लेोके ऽपि इयं गौः क्रेतव्येत्यतो न तथा क्रेतारः प्रवर्तन्ते यथा एषा बहुस्निग्धक्षीरा सुशीला सापत्या अनवप्रजा चेत्येवमादिभ्यः स्तुति. पदेभ्यः, स्वानुभवसाक्षिको ऽयमर्थः अत एव के चिदश्रुतार्थवाइके ऽपि विधिवाक्ये तत्कल्पनमिच्छन्ति, यथा क चिदर्थवादाद्विधिकल्पनमिति यथोक्तम् "विधिस्तुत्योः सदा वृत्तिः समानविषयेष्यते" अनधिगम्यमानविधिवाक्यसंबन्धा. चार्थवादाद्विधिरुन्नीयते न गम्यमानविधिसंबन्धात् ।। ____अत एव च सो ऽरोदीदित्येवमादिभ्यो न रोदितव्यमित्यादिविधिकल्पनमिष्यते मुधैव पूर्वपक्षिणा तदाशतितम्, विध्यन्तरेणैकवाक्यत्वं हि प्रत्यक्षमिहोपदिश्यते वर्हिषि रजतं न देयमित्यस्य विधेः शेषो ऽयं सेो ऽरोदीदित्यादिः रुद्रो रुरोद तस्य यदश्र अशीयत तद्रजतमभवत् यो हि बर्हिषि रजतं ददाति पुरा ऽस्य संवत्सराद् गृहे रोदनं भवतीति तस्माद्बहिषि रजतं न देयमिति, प्राजापत्यमजं तूपरमालभेतेत्येतस्य विधेः शेष: प्रजापतिरात्मनो वपामुदखिददिति वपाहोममाहात्म्यप्रदर्शनार्थमुच्यते अग्नौ वै प्रगृहीतमात्रायां वपायामजस्तूपर उदगादिति, आदित्यः प्रायणीयश्चरित्यस्य विधेः शेषो ऽयं देवा वै देवयजनमध्यवसाय दिशो न प्राजानन्नित्थं व्यामोहानामादित्यः चरु शयिता यथा दिङ्मोहस्येति एवं तत्र तत्र विधिशेषत्वमर्थवादानां वेदितव्यम्।
कथं पुनरिदमसत्यमेवोच्यते रुद्ररुदिताद्रजतमजायत प्रजापतिवपाहोमसमिद्धादग्नेरजस्तूपर उदगादिति, उच्यते नेदमसत्यम् यदस्य वाक्यस्य प्रतिपाचं तत्र सत्यार्थमेवेदम् , न चास्य यथाश्रुतो ऽर्थः प्रतिपाद्यः किं तु विधेयो निषे. ध्यो वा कश्चिदर्थः इहान्वाख्याने द्वयमापतति यच्च वृत्तान्तज्ञानं यच्च कस्मिश्चिदर्थे प्ररोचनाद्वेषो तत्र वृत्तान्तज्ञानं न प्रवर्तकं न निवर्त्तकमिति प्रयोजना. भावादनथेकमनादरणीयम् , प्ररोचनाद्वेषो तु प्रवृत्त्यङ्गत्वात्तदर्थी गृहीत्वा प्ररोचनायाः प्रवर्तेत्त द्वेषान्निवचैतेति तत्र तत्प्रतिपाद्यसत्यार्थ एवार्थवादः ।
यत्त्वरुदति रुद्रे कथं तद्रोदनवचनम् अरोदनप्रभवे वा रजते कथं तदुद्भवताभिधानमिति, गुणवादमात्रं गौण एष वादः श्वेतवर्णसारूप्यादिना रोदनप्रभवं रजतं निन्दितुमुच्यते, एवं पशुयागे वपाहोमप्रशंसायै प्रजापतिरात्मनो वपामुदखिददिति वृत्तान्ताख्यानं योजनीयम्, आदित्यचरुप्रशंसाय देवा