________________
२६०
न्यायमञ्जर्याम् देवयजनमध्यवसाय दिशो न प्राजानन्निति ।
अथ वा नैयायिकानामनेकप्रकारपुरुषातिशयवादिनां यथाश्रुते ऽप्यर्थे ना. त्यन्तमसंभवः रुद्रस्य रुदिताद्रजतजन्म प्रजापतेवपोखेदः तद्धोमात्तूपरपशूद्गम: देवानां देवयजनाभ्यवसाने दिङ्मोह इत्येवंजातीयकमपि सत्यमस्तु को दोषः, तत्सर्वथा ऽर्थवादानां प्रामाण्यम् । ___ एवं स्तेनं मनो ऽनृतवादिनी वागिति गौण एष वादः प्रच्छन्नतया स्तेनं मन उच्यते बाहुल्थाभिप्रायेण चानृतवादिनी वागिति, ___ धूम एवाग्नेर्दिवा ददृशे नाचिरचिरेवाग्नेर्नक्तं ददृशे न धूम इति दूरभूय स्त्वाभिप्रायेण कस्मै चित्प्रयोजनाय सायंप्रात)मदेवतास्तुतये कथ्यते, ___ न चैतद्विो यदि ब्राह्यणाः स्मोऽब्राह्मणा वेति प्रवरानुमन्त्रणप्रशंसायै संशय इव दर्शितःअब्राह्मणो ऽपि यजमानः प्रवरानुमन्त्रणेन ब्राह्मणः स्यादिति, को ह वै तद्वेद यदमुस्मिल्लोके ऽस्ति वा न वेति दृष्टफलं किमपि कर्मस्तोतुमुच्यते,
शोभतेऽस्य मुखं य एवं वेदेति विद्याप्रशंसैषा शोभते इति शिष्यैरुद्वीक्ष्यमा. णस्य मुखमिति, सर्वान्कामानवाप्नोति इति सर्वत्वं प्रकृतापेक्षम् स्तुत्यर्थ चाश्व मेधाध्ययने ऽपि तत्फलवचनम् ,
हिरण्यं निधाय चेतव्यमिति स्तुत्यर्थतया दिव्यन्तरिक्षे पृथिव्यां च चयनं प्रतिषिध्यते अनुपहितहिरण्यायां पृथिव्याममिर्न चेतव्यो न पुनर्न चेतव्य एव तस्यामिति,
आदित्यो यूप इत्थमजने सति तेजस्वितया यूपस्यादित्यरूपतास्तुतये कथ्यते, तत्कार्यकारित्वाच्च यजमानः प्रस्तर उच्यते, न हि मुख्ययैव वृत्त्या लेोके शब्दाः प्रवर्तन्ते गौण्या ऽपि वृत्त्या व्यवहारदर्शनात् , एवं वेदे ऽपि तेषां तथा प्रयोगो भविष्यति, इत्थं च मन्त्रेष्वप्यैन्या गार्हपत्योपस्थानमविरुद्धम् , एवं स्तुतिनिन्दास्वरूपास्तावदर्थवादाः विध्येकवाक्यत्वेन प्रमाणम् , पुराकृतिपुराकल्पखरूपा अपि तथैव योज्याः, ___ कचित्पुनरर्थवादेनैव कश्चिदंशः पूर्यते इति न तु प्रतीत्यङ्गत्वमेव तस्य कार्याङ्गत्वमपि भवति, यथा प्रतितिष्ठन्ति हवा य एता रात्रीरुपयन्ति इत्यश्रूयमाणाधिकारस्य रात्रिसत्रविधेरधिकारांशो ऽर्थवादादेव लभ्यते यथोक्तं(१) फलमात्रेयो निर्देशादिति, तत्र हि प्रतिष्ठाकामाः सत्रमासीरन्नित्यर्थवादवशाद्गम्यते वाक्यार्थः
क चिद्विधिवाक्यस्यार्थसंदेहे ऽर्थवादात्मकाद्वाक्यशेषात्तन्निश्चयो भवति यथा अक्ताः शर्करा उपधातीत्यजनद्रव्ये घृततैलवसादिभेदेन संदिह्यमाने
(१) जैमिनिसूत्रम् अ० ४ पा० ३ सू० १८ ।