________________
प्रमाणप्रकरणम्
२६१
तेजो वै घृतमिति अर्थवादाद् घतेनाक्ताः शर्करा उपधेया इति गम्यते ।
इत्यर्थवादा विधिनैक्यभावात्तद्वत्प्रमाणत्वममी भजन्ते । अस्ति प्रतीत्यन्वयिता हि तेषां क चिञ्च कार्यान्वयिता तु दृष्टा ॥ यद्वा स्वरूपपरतामपि संस्पृशन्ति प्रामाण्यवर्म त 'इमे न परित्यजन्ति । नैयायिका हि पुरुषातिशयं वदन्तो वृत्तान्तवर्णनमपीह यथार्थमाहुः ॥ आदित्ययूपवचनादिषु तु स्वरूप. याथार्थ्यमित्थमुपपादयितुं न शक्यम् । गौणी तु वृत्तिमवलम्ब्य कृता तदर्थव्याख्येति तेष्वपि न विप्लवनावकाशः॥
मन्त्रप्रामाण्याक्षेपः । अथेदानी मन्त्रा विचार्यन्ते किमर्थप्रकाशनद्वारेण विध्यर्थोपयोगिता तेषामु. तोचारणमात्रेणेति, ननूभयथाऽपि प्रामाण्याविशेषात्किं तद्विचारेण,नहीदं शास्त्रं वेदस्यार्थविचाराय मीमांसावत्प्रवृत्तम् , अपि तु प्रामाण्यनिर्णयायैवेति, सत्यम् , प्रामाण्यनिर्णयायेदं शास्त्रं प्रवृत्तम् अविवक्षितार्थत्वे तु मन्त्राणामप्रतिपादक. त्वलक्षणमप्रामाण्यमेव भवेत्तत्सामान्याद्वेदब्राह्मणवाक्यानामपि तथाभावप्रसङ्ग इति वेदस्य कर्मावबोधार्थत्वं हीयते, न च संशयविपर्ययजननमेवाप्रामाण्यम् अज्ञानजनकत्वमप्यप्रामाण्यमेव, तदुच्यते उच्चारणमात्रोपकारिणो मन्त्राः कुतः तथा विनियोगोपदेशात् , उरु प्रथा उरु प्रथस्वेति पुरोडाशं प्रथयति यद्यर्थप्रकाशनोपकारिणो मन्त्राः सामर्थ्यादेव प्रथनोपयोगी मन्त्रोऽयमिति किमर्थ प्रथने विनियुज्यते वचनेन, यथा साक्षः पुरुषः परेण चेन्नीयते नूनमतिभ्यां न पश्यतीति गम्यते, अग्नीदग्नीन्विहरेति च करात्येवासौ ऋत्विगग्निविहरणं किं वचनेन, उच्चारणमात्रोपकारिणि मन्त्र तदुच्चारणादेवादृष्टं किं चिदुपकारजातं कल्प्यते वाक्यक्रमनियमाच्चाविवक्षितार्थान् मन्त्रानवगच्छामः, नियतपदक्रमा हि मन्त्राः पठ्यन्ते यद्यर्थप्रतिपादनेनोपकुर्युः नियतकमाश्रयणमनर्थकं स्यात् क्रमान्तरेणापि तदर्थावगमसंपत्तेः । ___ इतश्चाविवक्षितार्था मन्त्राः अविद्यमानार्थप्रकाशिनो हि के चिदृश्यन्ते यथा "चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मानाविवेश" इति, न हि चतुः शृङ्गं