________________
२६२
न्यायमचर्याम् त्रिपादं द्विशिरस्कं सप्तहस्तं किं चिद्यज्ञसाधकमस्ति यदनेन प्रकाश्येत, अतश्चैवम् अचेतनप्रैषप्रदर्शनाद् ओषधे त्रायस्वैनमिति न ह्योषधिर्बुद्धयते त्राणाय नियुक्तास्मीति, शृणोत ग्रावाण इति चोदाहरणम् न ह्यचेतना प्रावाणः श्रोतुं नियुज्यन्ते, अपि च अदितिौरन्तरिक्षमिति विप्रतिषिद्धमभिव दन्ति मन्त्राः कथं सैव द्यौस्तदेवान्तरिक्षं भवितुमर्हति, केषां चित्र मन्त्राणा. मर्थो ज्ञातुमेव न शक्यते ते कथमर्थप्रकाशनेनोपकुयुः अम्यक्सा त इन्द्रऋष्टिरिति शण्येव जर्फरी तुर्फरीतु इति इन्द्रः सोमस्य करकेति च, तस्मादविवक्षितार्था मन्त्राः । __ अपि चोच्चारणमुभयथा ऽपि कर्त्तव्यं मन्त्राणामदृष्टाय वाऽर्थप्रत्यायनाय वा यतो ऽर्थमपि नानुचारिताः शब्दाः प्रत्याययितुमुत्सहन्ते, तस्मादवश्यकत्र्तव्ये ऽस्मिन्नचारणे तत एव यज्ञोपकारे सिद्धे किमर्थप्रतिपादनद्वारपरिग्रहेण प्रयोजनमिति।
मन्त्रप्रामाण्यसमर्थनम्। तत्रोच्यते, किं मन्त्रेभ्यो ऽर्थप्रतीतिरेव नास्ति किं वा भवन्त्यपि निनिमित्ता ऽसौ उत सन्निमित्ता ऽपि ग्रहैकत्वप्रतीतिवदविवक्षितेति, न तावत्प्रतीतिरेव ना. स्ति शब्दाथसम्बन्धव्युत्पत्तिसंस्कृतमतीनां बर्हिर्देवसदनं दामीत्येवमादिमन्त्रश्रवणे सति तदर्थप्रतीते: स्वसंवेद्यत्वात् , नाप्यसौ निनिमित्ता लोकवत्पदानामेवात्र. निमित्तत्वात् , व्युत्पत्तिरपि न नास्ति य एव लौकिकाः शब्दास्ते एव वैदिकाः तएव तेषामा इति लोकव्यवहारतस्तद्वयुत्पत्तिसम्भवात् , नापि सम्भवन्त्यपि मन्त्रेभ्यो ऽर्थप्रतीतिः ग्रहैकत्वप्रतीतिवदविवक्षिता भवितुमर्हति अविवक्षानिबन्धनस्य कस्य चिदप्यभावात् , ग्रहादिवचनान्तरनितिसंख्यत्वात्सोमावसेकनिह. रणस्य च सम्मार्गकार्यस्य सर्वग्रहसाधारणत्वाद् ग्रहमिति विभक्तश्च कर्मकारकसमर्पणमात्रेणापि सार्थक्योपपत्तः युक्तमेकत्वमविवक्षितमिति कथयितुम् , इह तु बहिर्देवसदनं दामीत्येवमादिवाक्यक्रियमाणं ऋतूपयोगिद्रव्यादिप्रकाशनं तस्य विध्यपेक्षितत्वान्मन्त्रेण स्मृतं कर्म करोति तथा क्रियमाणमभ्युद. यकारि भवति इति न यज्ञाङ्गप्रकाशनमविवक्षितम् , अतो नोच्चारणमात्रोपकारिणो मन्त्राः, जपमन्त्राणां तु पावमानी जपेदिति विधिनैव तावन्मात्राक्षेपणानार्थेन प्रकाशितेन प्रयोजनमिति किं तत्र क्रियते, यत्र तु जपेदिति विधिन श्रयते न तत्र तदर्थः प्रतीयमानो ऽपेक्ष्यमाणश्चोपेक्षितुं युक्तः ।।
ननु यदि जपेदिति विधेवैष्णव्यादिषु नार्थो विवक्ष्यते तर्हि स्वाध्यायो ऽध्येतव्य इत्यक्षरग्रहणमात्रविधानात्सर्वस्यैव वेदस्याविविक्षितार्थत्वं स्यात, एतच्च शास्त्रान्तरे विस्तरतो निर्णीतम् इह तु वितन्यमानमस्माकमवान्तरवि