________________
प्रमाणप्रकरम्
वाच्यार्थप्रत्यये वाचकशब्दस्य विषयतया प्रसक्तासंभवदोषवारणार्थमव्यपदेश्यपदम् -
असम्भवदोषव्यवच्छेदार्थमव्यपदेश्यपदोपदानम्, एवं हि परो मन्यते स - तिलक्ष्ये लक्षणवर्णनमुचितम् इह तु लक्ष्यमाणं प्रत्यक्ष मिन्द्रियार्थसन्निकर्षोत्पन्नं नाम न किंचिदस्ति, गौरित्यादिज्ञानानां शब्दावच्छिन्नवाच्य विषयत्वेन शाब्दत्वात् इह हि विषयव्यतिरेकेण ज्ञानानामतिशयो दुरुपपादः बोधस्वभावस्य सर्वान्प्रत्यविशिष्टत्वात्, तत्र यथा दण्डीति शुक्ल इति वा प्रत्ययो विशेषणावच्छि न्नविशेष्यविषयतया सातिशयत्वमश्नुते तथा गौरित्यादिप्रत्ययो ऽपि वाचकावच्छिन्नवाच्याविषयत्वात्सातिशयत्वं भजते शब्दावच्छिन्नवाच्यविषयत्वाच्च शाब्द एष प्रत्ययः तद्व्यतिरिक्तकरणकार्यत्वानुपपत्तेः, न हीन्द्रियकरणमिदं ज्ञानं भवि - तुमर्हति चक्षुषा विशेषणाविषयत्वाद्विशेष्ये च श्रोत्रस्यासामर्थ्यात् न च युगपदिन्द्रियद्वय द्वारकमेकमुत्पद्यमानं ज्ञानं क चिद्दष्टम्, तत्रैतत्स्यात्, मानसमिदं ज्ञानं सुगन्धिबन्धूकबोधवद्भविष्यति, उक्तमत्र शब्द लिङ्गादिकरणान्तरव्यापारविरतो कार्यमुपजायमानं केवलमनःकरणमिति कल्प्यते न तत्सम्भवे ऽपि, तथा हि सति मानसमेकं प्रमाणं स्यादिति, अस्ति चात्र शब्द एव करणम्, स हि सहस्रकिरणवदात्मानं च विषयं च प्रकाशते इति, तस्मादिन्द्रियविषये su गौरित्यादिज्ञानमुत्पद्यमानं शाब्दमेवेत्यवधार्यते ।
"
ननु सङ्केतावगमसमये गौरित्यादिशब्दः श्रुत श्रासीत्स इदानीमतिक्रान्त इति कथं तत्कृत एष प्रत्ययः स्यात्, उच्यते तदानीमश्रूयमाणस्य शब्दस्य स्मृत्यारूढस्य तत्प्रत्यय हेतुत्वात्,
तच्छ्रुतावपि किं सर्व वर्णाः प्रत्यक्षगोचराः । विशेषः को ऽन्त्यवर्णेन गृहीतेन स्मृतेन वा ॥
७५
तदेवं स्मृतिविषयीकृतशब्दजनित एष प्रत्यय इत्यभ्युपेतव्यः, यथा परोक्षे ऽपि शब्द उच्चरित आत्मानं प्रकाशयत्यर्थं च तथा प्रत्यक्षे विषये स एव स्मर्यमारण आत्मानमर्थं च प्रकाशयतीति वाचकावच्छिन्नवाच्यप्रतिभासश्चैवंविधासु बुद्धिषु नूनमेषितव्यः, यथा ऽऽह वृद्धः 'सब्ज्ञित्वं केवलं परम्' इति, सब्ज्ञित्वमिति मत्वर्थीयप्रत्ययान्तादुत्पन्नो भावप्रत्ययः संबन्धमाचष्टे सज्ञासविज्ञ - संबन्धः सब्ज्ञित्वमिति, कृत्तद्धितसमासेषु संबन्धाभिधानमित्यभियुक्तस्मरणात्, सब्ज्ञा च शब्दः सो ऽयं शब्दविशिष्टार्थप्रतिभास उक्तो भवति, न च शब्दानुसन्धानरहितः कश्चित्प्रत्ययो दृश्यते, अनुल्लिखित शब्दकेष्वपि प्रत्ययेष्वन्ततः सामान्य शब्दसमुन्मेषसम्भवात् तदुल्लेखव्यतिरेकेण प्रकाशात्मिकायाः प्रतीतेरनुत्पादान, तथाऽऽह भर्तृहरिः