________________
७४
न्यायमअर्याम् त्वादुभयजमिदं ज्ञानं व्यपदेशाज्जातमिति व्यपदेश्यमुच्यते तदव्यपदेश्यपदेन व्युदस्यते, न चेदं पन्चमं प्रमाणमवतरति किं तु शाब्दमिवैतदनुमन्यते लोकः, तथा च कथं पुनः जानीते भवान्पनसोऽयमिति पृष्टः प्रतिवक्ति मम देवदत्तेना. ख्यातं पनसो ऽयमिति, न पुनरेवं विस्मृत्यापि ब्रवीति चक्षुषा मया प्रतिपन्नं पनसो ऽयमुच्यते इति, तदिन्द्रियान्वयव्यतिरेकानुविधाने सत्यपि शब्द एवात्रकरणम् , अत एव सूत्रकृता शब्दलक्षणं वर्णयता नेन्द्रियानुप्रवेशप्रतिषेधाय किमपि विशेषणमुपरचितम् , उपदेशः शब्द इत्येतावदेव लक्षणमभिहितम् ,
अतश्चेन्द्रियानुप्रवेशे ऽपि शाब्दतामस्य मन्यते सूत्रकारः, इह पुनरव्यपदेश्यविशेषणपदोपादानेन शब्दानुप्रवेशप्रतिषेधान्न प्रत्यक्षफलमेतज् शानं तस्मादेवं विधव्यपदेश्यविज्ञानव्यवच्छेदार्थमव्यपदेश्यपदमिति, - अव्यपदेश्यपदस्य पूर्वोक्तप्रयोजनस्य निराकरणम्
तदेतद्व्याख्यातारो नानुमन्यन्ते, यधुभयजं ज्ञानमव्यपदेश्यपदेन व्युदस्यते तदपि नाप्रमाणम् अप्रमाणलक्षणातीतत्वादिति, प्रमाणं भवत्कस्मिन्न. नुनिविशतामिति चिन्त्यम् ।
ननु शाब्दमिदं ज्ञानं तद्भावानुविधानतः । भवत्वक्षजमप्येतत्तद्भावानुविधानतः॥ शाब्दं चोभयजं चेति विरुद्धमभिधीयते ।
प्रमाणान्तरमेव स्यादित्थं तदपि पूर्ववत् ॥ ननु लोकः शाब्दतामस्य व्यपदिशति देवदत्तेनाख्यातं पनसो ऽयमिति व्यवहारादित्युक्तम्, अहो लोकवत्सः श्रद्दधानो महानुभावः, न खलु लोकस्य व्य. पदेशैकशरणा वस्तुस्थितयो भवन्ति, लोको हि यथारुचि व्यपदिशति, नानामुनिजनसाधारणमपि तीर्थ नन्दिकुण्डमिति किं न श्रुतवान् भवान, हन्त तर्हि सूत्रकाराशयमनुसरन्तः शाब्दमिदं ज्ञानं प्रतिपद्यामहे यदयं सूत्रकारः प्रत्यक्षे शब्दानुप्रवेशव्यवच्छेदाय विशेषणमिदमुपदिशति शब्दे तु नेन्द्रियव्युदासाय किं चिद्विशेषणमुपादत्ते स पश्यति करणान्तरानुप्रवेशे ऽपि शाब्दमेतज ज्ञानमिति, उच्यते
मनुवत्सूत्रकारोऽपि न धर्मस्योपदेशकः ।
येनैतदनुरोधेन तस्य याम शाब्दताम् ।। वस्तुस्थित्या तु निरूप्यमाणमिन्द्रयान्वयव्यतिरेकानुविधायित्वादिदं विज्ञानं न प्रत्यक्षफलतामतिवर्त्तते, ततश्च व्युदस्यमानं प्रमाणन्तरमेव स्पृशेत् ।
तस्मादुभयजज्ञानव्युदासानुपपत्तितः। व्याख्या भङ्गयन्तरेणास्य पदस्येयं विधीयते ॥