________________
प्रमाणप्रकरणम्
त्यलमतिकेलिना, तस्मात्समानन्यायत्वात्सुखे व्यभिचारितास्तीत्यव्यभिचारिपदाज्ञानं न लभ्यते। व्यवसायपदाज्ज्ञानलाभसम्भवे विशेष्यनिर्देशार्थ ज्ञानपदम्--
अपर आह–किमनेन डिम्भकलहेन मा भूदव्यभिचारिपदाज्ज्ञानस्य लाभस्तथापि व्यवसायात्मकपदाल्लभ्यते एव ज्ञानं न हि सुखदुःखादयो व्यव. ५ सायात्मका भवन्ति किं तु ज्ञानमेव तथाविधमिति, संशयव्यवच्छेदार्थं च त. त्पदमिति चेत् , सत्यम ----सुखादिव्यवच्छेदमपि कर्तुमलमेव भवति व्यवसा. यात्मकत्वस्य सुखादिष्वसम्भवादिति, तदेवं सिद्धे ऽपि सुखादिव्यवच्छेदे कर्तः व्यमेव ज्ञानग्रहणं विशेष्यनिर्देशार्थत्वात , तस्य हि सर्वाण्यमूनि विशेषणान्युपात्तानि तदनुपादाने निरालम्बनानि भवेयुः, श्रोतुश्च बुद्धिर्न समाधीयेतेति तेन १० बलाद्गम्यमानमेव कर्त्तव्यमेव ज्ञानग्रहणम् , अक्षिप्तस्यावचने प्रत्यक्ष प्रत्यक्षमित्येतावन्मात्रमभिधेयं स्यादन्याल्लभ्यत एव, तस्माद्धर्मिनिर्देशार्थ युक्तं ज्ञानपदम।
अव्यपदेशपदकृत्यम्शब्दानामर्थसंस्पशित्वं शाक्यमतनिरासेन साधयिष्यते इति शब्दानुप्रवेश- १५ वशेन व्यपदेश्यं नाम ज्ञानमुपपद्यते इति तद्व्यवच्छेदार्थमव्यपदेशपदम् ।
तत्र वृद्धनैयायिकास्तावदाचक्षते, व्यपदिश्यते इति व्यपदेश्यं शब्दकर्मता. मापन्नं ज्ञानमुच्यते यदिन्द्रियार्थसन्निकर्षादुत्पन्नं सद्विषयनामधेयेन व्यपदिश्यते रूपज्ञानं रसज्ञानमिति तद्यपदेश्यं ज्ञानं प्रत्यक्षफलं मा भूदित्यव्यपदेशप्रहणम्।
अव्यदेश्यपदस्य कृत्यान्तरम्___ तदिदमनुपपन्नम्-न हि नामधेयव्यपदेश्यत्वमप्रामाण्यकारणं भवति यदि हि तद्रपज्ञानं रसज्ञानं च विषयाव्यभिचारि निःसंशयं च तत्कथमप्रमाणफलमुच्यते व्यभिचारादिदोषयोगे वा पदान्तरेण तत्प्रतिक्षेपात् किमव्यपदे. श्यपदेन, प्रमाणफलं च तद्विज्ञानमिदानीं किं प्रमाणप्रभवं भवद् न प्रत्यक्षफलम् एतत्पदप्रक्षिप्तत्वात् , नानुमानादिजन्यं तद्वलक्ष ण्यात् , नास्ति किं चित् पञ्चमं २५ प्रमाणमसङ्ग्रहो ऽस्य लक्ष्यस्य लक्षणेनेतिं प्रज्ञाप्रमादः, तस्मादपव्याख्यानमेतदिति व्यवच्छेद्यान्तरमव्यपदेश्यपदस्य वर्णयां चक्रुराचार्या:-शब्दार्थेषु स्थविरव्यवहारतो व्युत्पद्यमानो जनः संशयावगमसमये संज्ञोपदेशकादयं पनस उ. च्यते इति वृद्धोदीरिताद्वाक्यात्पुरोऽवस्थितशाखादिमन्तमर्थ पनसशब्दवाच्यत. या जानाति, तदस्य ज्ञानमिन्द्रियजमपि न केवलेन्द्रियकरणकं भवितुमुचितम, असति संज्ञोपदेशिनि शब्दे तदनुत्पादात्तेन शब्देन्द्रियाभ्यां सम्भूय जनित
१० न्या०