________________
न्यायमञ्जर्याम्
निमित्तकारणान्यत्वमपि कार्यस्य भेदकम् । विलक्षणा हि दृश्यन्ते घटादौ पाकजा गुणाः ॥ अपि च ज्ञानमिच्छन्ति न सर्वे ज्ञानपूर्वकम् । सुखदुःखादि सर्व तु विषयज्ञानपूर्वकम् ॥ विषयानुभवात्पाद्या यत्रापि न सुखादयः तत्रापि तेषामुत्पत्तौ कारणं विषयस्मृतिः ॥
कचित्तु सङ्कल्पो ऽपि सुखस्य कारणतां प्रतिपद्यते, तस्मात्सर्व सुखादि ज्ञानपूर्वकमेव, ज्ञानमपि ज्ञानपूर्वकमेवेति चेद् उपरिष्टान्निराकरिष्यमाणत्वात् न हि गर्भादौ मदमूर्छाद्यनन्तरं वा ज्ञानमुपजायमानं ज्ञानान्तरपूर्वकं भवतीति वच्यामः, तेन सुखादीनां वैलक्ष्यण्योपपादनात सुखादिव्यवच्छेदस्य सिद्धत्वात्, अव्याभचारिषदाज्ज्ञानळाभशङ्कासमाधाने-
७२
व्यभिचाराव्यभिचारौ हे ज्ञानस्य धर्मो न सुखादेरतस्तदुपादानात्तद्धर्मयोगि ज्ञानं लभ्यते एव किं ज्ञानप्रहणेन, नैतदेवम् - सुखम्यापि सव्यभिचारस्य दृष्टत्वात् किं पुनः सुखं व्यभिचारवद्द्द्दष्टम्, यदेतत्परदाराभिमर्शादिनिषिद्धाचरणसम्भवं सुखं तद्यभिचारि,
"
ननु सुखस्य कीदृशो व्यभिचारः, ज्ञानस्यापि कीदृशो व्यभिचारः, अतस्मिंस्तथाभावः सुखस्यापि तस्मिंस्तथाभाव एव किं परपुरन्ध्रिपरिरम्भसम्भवं सुखं सुखं न भवति, किं शुक्तिकायां रजतज्ञानं ज्ञानं न भवति, ज्ञानं तद्भवति कि तु मिथ्या इदमपि सुखं भवति किं तु मिथ्या ।
ननु न सुखं मिथ्या तदपि ह्यानन्दस्वभावमेव, यद्येवं शुक्तिकायां रजतज्ञानमपि न मिथ्या तदपि हि विषयानुभवस्वभावमेव,
ननु विषयानुभवस्वभावमपि तज्ज्ञानं विषयं व्यभिचरति, सुखमपि तर्हि इदमानन्दस्वभावमपि विषयं व्यभिचरत्येव, किमसुखसाधनेन तज्जनितम्, ज्ञानमपि किमज्ञानसाधनेन जनितम्,
ननु ज्ञानं ज्ञानसाधनेन जनितम् असत्येन प्रत्यक्ष बाधितेन रजतादिना, सुखमपि सुखसाधनेन जनितम् असत्येन तु शास्त्र बाधितेन परवनितादिना, किं परवनितादि न सत्यम्, तत्रापि ज्ञानजनकं सत्यम्, असत्यं प्रत्यक्षबाधितत्वात्, परवनिताद्यपि सुखसाधनमसत्यं शास्त्रबाधितत्वात् ।
ननु शास्त्रेण किमत्र बाध्यते, ज्ञाने ऽपि प्रत्यक्षेण किं बाध्यते, विषयो मिथ्येति ख्याप्यते, शास्त्रेणापि सुखस्य हेतुर्मिध्येति ख्याप्यते, किं स विषयः सुखहेतुर्न भवति, यथा त्वेष विषयः कलुषस्य ज्ञानस्य हेतुस्तथा सो ऽपि कलुषस्य कटुविपाकस्य सुखस्य हेतुरिति तथाविधं सुखमपि व्यभिचारि भवत्येवे