________________
प्रमाणप्रकरणम्
७१ संशयो हि विषयग्रहणात्मको अनुभूयते अनिश्चितं तु विषयं गृह्णाति विपर्ययो. ऽपि विषयग्रहणात्मक एव विपरीतमसन्तं वा विषयं गृहणाति न तु विषयग्रहणस्वभावं सुखं दुःखं चानुभूयते, अन्य एवायं ग्राीकस्वभाव आन्तरो धर्मः सुखदुःखादिरिति घटज्ञानवद्विषयतयैव ज्ञानं भिनत्ति न स्वभावभेदेन संशयव. दिति, तत्रैतत्स्यात् स्वप्रकाशत्वात्सुखादेर्न पाकिस्वभावत्वम् , अतश्च ग्राह्यग्र. हरमोभयस्वभावत्वाज ज्ञानमेव तदिति, मैवं वोचः, प्रकाशत्वं ज्ञाने ऽपि प्रतिक्षिप्तं प्रतिक्षेप्स्यते तत्कुतः सुखादौ भविष्यति, न हि ग्रहणस्वभाव कश्चित्सुखमनुभवति ज्ञानवदिति । ___ नवस्य प्रकाशत्वानभ्युपगमे सुखादेरुत्पादानुत्पादयोरविशेषात्सर्वदा सु. खित्वं न कदा चिद्वा स्यादिति, नैतदेवम-उत्पन्नमेव सपदि सुखं गृह्यते ज्ञाने. नेति कथमनुत्पन्नान्न विशिष्यते, प्रत्युत स्वप्रकाशसुखवादिनामेष दोषः स्वप्र. काशस्य दीपादेः सर्वान्प्रत्यविशिष्टत्वात् , क चित्सन्ताने स्वप्रकाशसुखोत्पादात्तेनैव स्वप्रकाशेन सुखेनान्यो ऽपि सुखी स्याद्यस्यापि सुखं नोत्पन्नमिति, किं च किमेकमेव ज्ञानं सर्वसुखदुःखाद्यशेषाकारभूषितमिष्यते उत किं चित्सुखात्मक किं चिद् दुःखात्मकं ज्ञानमिति, आद्य पक्षे सर्वाकारखचितज्ञानोपजननादेकस्मिन्नेव क्षणे परस्परविरुद्धसुखदु:खादिधर्मप्रबन्धवेदनप्रसङ्गः, उत्तरस्मिंस्तु किन्चिस्सुखज्ञानं किंचिदःखज्ञानमिति यत्किं चित्सुखदुःखचितं विषयानुभवस्वभावमपि ज्ञानमनुभूयमानमेषितव्यमेव, तच्चन स्वच्छम् अपि तु केन चिद्घटादिना विषयेणोपरक्तमन्वयव्यतिरेकाभ्यां च घटाद्यपजननापाये ऽपि बोधस्वभावमनुवर्तमानं प्रतीयते, तदिदानी सुखज्ञानमप्यनुभूयमानं सुखेन विषयभावजुषा घटादिनेवोपरज्यते इति गम्यते न स्वरूपेणैव सुखात्मकं ततो भिन्नरूपस्य बोधमात्रस्वभावस्य ज्ञानस्थान्यदा हश्वादिति, तस्मान्न बोधरूपाः सुखादयः, अभिन्नहेतुजत्वादिति चायमसिद्धो हेतुः समवायिकारणस्यात्मनः असमवायिकारणस्यात्ममनः संयोगस्य अभेदे ऽपि निमित्तकारणस्य सुखत्व. ज्ञानत्वादेभिन्नत्वात् ।
ननु सुखोत्पादात्पूर्वमनाश्रयं सुखत्वसामान्यं कथं तत्र स्यात् , कश्चापि सुखहेतुभिः कारकैः संसर्गः असंसष्टं च कथं कारकं स्यात् , ____ उच्यते-सर्वसर्वगतानि सामान्यानि साधयिष्यन्ते इति सन्ति तत्रापि सु. खत्वादीनि योग्यतालक्षण एव चैषां सुखहेतुभिः कारकैः संसर्गः धर्माधर्मवत् , धर्माधौं हि सर्वस्य प्राणिनां सुखदुःखहेतोः जायमानस्य शाल्यादेः कार्यस्य कारणं तयोश्च तत्कारणैः बीजक्षितिजलादिभिः सह योग्यतैव संसर्गः एवं सुखत्वादीनामपि स्यात् , तस्मानिमित्तकारणभेदाद्भिन्नानि ज्ञानसुखादीनि कायोणि।