________________
न्यायमञ्जर्याम् . वच्चेदं प्रत्यक्ष चतुष्टयत्रयद्वयसन्निकर्षात्प्रवर्तते, तत्र बाहचे रूपादौ विषये चतुष्टयसन्निकर्षात् ज्ञानमुत्पद्यते आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रिय. मर्थनेति, सुखादौ तु त्रयसन्निकर्षाज्ज्ञानमुत्पद्यते तत्र चक्षरादिव्यापाराभावात्, आत्मनि तु योगिनो द्वयोरात्ममनसोरेव संयोगाज्ज्ञानमुपजायते तृतीयस्य ग्राह्यस्य ग्राहकस्य तत्राभावात् , तस्मात्सुखादिज्ञानसंग्रहादिन्द्रियार्थसन्नि कषोत्पामितियुक्तमुक्तम्, आत्ममनसोस्तु सदपि ज्ञानजनकत्वमिह न सूत्रितं सर्वप्रमाणसाधारणत्वादिति ।
ज्ञानपदकृत्यम्-- ज्ञानग्रहणं विशेष्यनिर्दशार्थम्, तस्य हीन्द्रियार्थसन्निकर्षोत्पन्नत्वादीनि विशेषणानि तानि असति विशेष्ये कस्य विशेषणानि स्युरिति,
. अथ वा सुखादिव्यावृत्त्यर्थं ज्ञानपदोपादनम् । इन्द्रियार्थसन्निकर्षोत्पन्न हि सुखमपि भवतितत्र तजनक कारकचक्र प्रमाणं मा भूज्ज्ञानजनकमेव प्रमाणं यथा स्यादिति ज्ञानग्रहणम् ।
बौद्धमतेन ज्ञानस्य सुखरूपत्वम्अत्र शाक्याश्चोदयन्ति-न ज्ञानपदेन सुखादिव्यवच्छेदः कर्तुं युक्तः शक्यो वा सुखादीनामपि ज्ञानस्वभावत्वात् , ज्ञानस्यैवामी भेदाः सुखं दुःखमिच्छा द्वे. षः प्रयत्न इति, कारणाधीनो हि भावानां भेदा भवितुमर्हति समानकारणानाम. पि तु भेदे ऽभिधीयमाने न कारणकृतं पदार्थानां नियतं रूपमिति तदाऽऽकस्मिकत्वप्रसङ्गः, तदुक्तम्
तदतद्रपिणो भावास्तदतद्रूपहेतुजाः।
तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम् ॥ इति । तस्माज ज्ञानरूपाः सुखादयः तदभिन्नहेतुजत्वादिति ।
स्वमतेन ज्ञानस्य मुखरूपताखण्डनम् । तदिदमनुपपन्नम्-प्रत्यक्षविरुद्धत्वाद्धेतोः, सुखादिसंवेद्यमानमानन्दादिरूपत या ऽनुभूयते ज्ञान विषयानुभवस्वभावतयेति प्रत्यक्षसिद्धभेदत्वात्कथमभेदे - :नुमान क्रमते, अत एव इदमपि न वचनीयम् , एकमेवेदं संविदूपं हर्षविषादाधनेकाकारविवत्तै पश्यामः तत्र यथेष्टं सज्ञाः क्रियन्तामिति, संविदो वि. षयानुभवस्वभावतयैव प्रतिभासात् सुखादेश्व विषयानुभवस्वभावानुस्यूतस्याप्र. तिभासात् , ज्ञानमेव विषयग्रहणरूपं प्रकाशते न सुखं दुःखं वा, यस्तु सुखज्ञानं दुःखज्ञानमिति प्रतिभासः स ज्ञानस्वभावभेदकृत एव संशयज्ञानं विपर्ययज्ञानमितिवत्, उक्तमत्र संशयविपर्ययादौ विषयानुभवस्वभावत्वमनुस्यतमवभाति