________________
प्रमाणप्रकरणम्
तमिति, संयुक्तविशेषणभावादभावग्रहणं व्याख्यातम् इह घटो नास्तीति, चक्षुषा संयुक्तो भूप्रदेशस्तद्विशेषणीभूतश्चाभाव इति ।
सन्निकर्षावश्यकत्वम्ननु सन्निकर्षावगमे किं प्रमाणम् , व्यवहितानुपलब्धिरिति बमः, यदि ह्यसन्निकृष्टमपि चक्षुरादीन्द्रियमर्थ गृहीयाद् व्यवहितो ऽपि ततो ऽर्थ उपलभ्येत न चोपलभ्यते तस्मादस्ति सन्निकर्षः, ___ नन्वव्यवधानमेवास्तु किं सन्निकर्षेण, मैवम्-इन्द्रियाणां कारकत्वेन प्राप्यकारित्वात् , संसृष्टं च कारकं फलाय कल्पते इति कल्पनीयः संसर्गः, एतथे न्द्रियपरीक्षाप्रसङ्गे निपुणं निर्णेष्यते इति नेह विविच्यते, रसनस्पर्शनयोश्च स्पष्ट प्राप्यकारित्वमुपलभ्यते इति तत्सामान्यादिन्द्रियान्तरेष्वपि कल्पनीयमिति ।
नन्वेवं सत्याक्षिप्तः कारकत्वादेव सन्निकर्ष इति स्वकण्ठेन कस्मादुच्यते, षड्विधत्वज्ञापनार्थमित्युक्तम् , उत्पन्नग्रहणेन इन्द्रियार्थयार्ज्ञानजनकत्वम् अर्थस्तु कर्मत्वेन, .
नन्वर्थस्य ज्ञानजनकत्वं कुतो ऽवगम्यते तद्विषयज्ञानोत्पादादेवमाकारस्य निराकृतत्वात्प्रकारान्तरेण प्रतिकर्मव्यवस्थाया असिद्धेः।
ननु प्रयोजनमेतत् प्रमाणं पृष्टोसि तद् बेहि उच्यते-एतदेव प्रमाणम् , अ. न्यस्यापि वीरणादेः कर्मकारकस्य कटादिकार्योत्पत्तो प्रत्यक्षानुपलम्भप्रतिपन्नाभ्यामन्वयव्यतिरेकाभ्यां यथा कारणत्वमवधार्यते तथा ऽर्थस्यापि ज्ञानोत्पत्तो, यथा हि देवदत्तार्थी कश्चित्तद्गृहं गतः तत्रासन्निहितं न पश्यति देवदत्तं क्षणान्तरे चैनमायातं पश्यति तत्रान्वव्यतिरेकाभ्यां देवदत्तसदसत्त्वानुवत्तिनो ज्ञानोत्पादानुत्पादाववधार्य मानसेन प्रत्यक्षेण चन्दनसुखवदस्य त. कारणतां प्रतिपद्यते।
ननु वीरणकटयोः पृथगुपलम्भायुक्त एष न्यायः अर्थों ज्ञानात्पृथङ्न क. दा चिदुपलभ्यते इति दुर्गमौ तत्रान्वयव्यतिरेको, उच्यते-अयमेव पृथगुपलम्भो यदसन्निहिते ऽर्थे न तद्विषयमबाधितं ज्ञानमुत्पद्यते इति, तदलमस्मिन्नवसरे ज्ञानवादगर्भचोद्योबिभावयिषया भविष्यत्येतदवसर इति, यथा चेन्द्रियाणां करणानामन्वयव्यतिरेकाभ्यां ज्ञानकारणत्वम् एवमर्थस्य करणे ऽपीत्युत्पन्नग्रहणेन दर्शितम्।
प्रत्यक्षलक्षणस्य-सुखादिप्रत्यक्षाव्याप्तिनिरास:नन्विन्द्रियार्थसन्निकर्षोत्पन्नपदेन सुखादिविषयं प्रत्यक्षं न संगृहीतं, नन सं. गहोतं मनस इन्द्रियत्वात् सुखादेरथस्य तग्राह्यत्वात् , भौतिकवाणादीन्द्रिय. धर्मवैलक्षण्यात्त मनसस्तद्वर्ग परिगणनं न कृतमिति ।