________________
३४
· न्यायमञ्जाम् .. तमपवर्गाढिके ज्ञानाद्वैतदलनप्रसङ्गेन दुराचार निर्भर्त्सयिष्यामह इत्यल विस्तरेण।
तस्मात्सुष्टक्तं यदा ज्ञानं प्रमाणं तदा हानादिबुद्धयः फलमिति, तदेवं फलविशेषणपक्षे यतःशब्दाध्याहारेण वाचकं सूत्रं यत इन्द्रियार्थसन्निकर्षोत्पन्नत्वादिविशेषणविशेषितं ज्ञानाख्यं फलं भवति तत्प्रत्यक्षमिति, तत्रेन्द्रियार्थसन्नि. कोत्पन्नपदमर्थानपेक्षजन्मनः स्मत्यादिज्ञानस्यार्थजनितस्यापि च परोक्षविषयस्यानुमानादिज्ञानस्य व्यवच्छेदार्थम् , अतः तज्जनकस्य न प्रत्यक्षता प्रसज्यते ।
प्रत्यक्षलक्षणस्यानुमानातिव्याप्तिनिरास:नन्विन्द्रियार्थसन्निकर्षोत्पन्नमिन्द्रियगत्यनुमानमप्यस्ति तद्धीन्द्रियार्थसन्निकर्षण लिङ्गभूतेन जन्यते देशान्तरप्राप्त्येव तपनगमनानुमानम् इति कथमनेन पदेनानुमानमपाक्रियते, - नैवदेवम्-इन्द्रियेण स्वविषयसनिकृष्टन सता तत्रैव यद्विज्ञानमुत्पद्यते तदिन्द्रियार्थसन्निकर्षोत्पन्नमिह बमहे न चेहशमिन्द्रियगत्यनुमानम्, कुतो विशेष प्रतिलम्भ इति चेद् उत्पन्नग्रहणादिति ब्रूमः, उत्पन्नग्रहणेन हि सग्निकर्षस्य कारकत्वं ख्याप्यते तचापीन्द्रियविषये ऽर्थे ज्ञानमुत्पादयतो निर्वहति इन्द्रियगत्यानुमाने तुन सन्निकर्ष कारकमाहुरपि तु ज्ञापकम् , अत एव स्वग्रहणसापेक्षः तबनुमाने ऽसौ व्याप्रियते न रूपादिप्रमिताविवेतरनिरपेक्ष इति । . प्रत्यक्षलक्षणघटकपदार्थनिर्वचनम् - .
इन्द्रियाणि प्राणरसननयनस्पर्शनश्रोत्राणि पृथिव्यादिभूतपञ्चकप्रकृतीनि बश्यन्ते ।
अर्थास्तु गन्धरूपरसस्पर्शशब्दगन्धत्वादिस्वजात्यवच्छिन्नास्तदधिकरणानि पृथिव्यप्तेजांसि द्रव्याणि तदधिष्ठानाः संख्यादयो गुणाः उत्क्षेपणादीनि कर्माणि ववृत्तीनि सामान्यानि येषां स्पशनेन चक्षुषा ग्रहणं कणव्रतमते निरूपितं ते ऽथोः, प्रागुक्तश्चाभावो ऽप्यर्थ एव विचार्य गम्यमानत्वात् ।
इन्द्रियार्थसंनिकर्षनिरूपणम्सन्निकर्षस्त्विन्द्रियाणामथैः सह षट्प्रकारः, तत्र द्रव्यं चक्षुषा त्वगिन्द्रियेण वा संयोगाद् गृह्यते, तद्गतो रूपादिगुणः संयुक्तसमवायात, रूपत्वादिसामान्यानि संयुक्तसमवेतसमवायाद् गृह्यन्ते, चक्षषा संयुक्तं द्रव्यं तत्र समवेतं रूपं रूपे च समवेतं रूपत्वमिति, समवायाच्छब्दो गृह्यते, श्रोत्रमाकाशद्रव्यं तत्र समवेतः शब्दः, शब्दत्वं समवेतसमवायाद् गृह्यते श्रोत्राकाशसमवेते शन्दे तद्धि समवे.