________________
प्रमाणमकरणम्
त्पते तु भिन्नाश्रययोरपि फलकरणभावः पाककाष्ठयोर्दृष्टः तथा चक्षुज्ञानयोरपि भविष्यतीति, कचित्तु भिन्नयोरपि ज्ञानयोः फलकरणत्वेन स्थितयोलिङ्गलिङ्गि ज्ञानयोरिव विशेषणविशेष्यज्ञानयारिव चैकात्म्याश्रयत्वमस्ति (१), न त्वनेन स. मानाश्रयत्वेन प्रयोजनं चक्षुरादावनिर्वहणात्, अथैक फलनिष्पत्तौ व्यापारः सः मानाश्रयत्वमुच्यते तदपि भवतु कारकान्तराणां न तु फलस्वभावस्य ज्ञानस्य फलनिष्पत्तौ सव्यापारत्वमुपपद्यते अपि तु पृथग्भूतफलनिर्वृत्तावेवेति ।
६०
ननु वस्तुस्थित्या फलमेव ज्ञानमुच्यते न तु विषयानुभवः विषयानुभवे स व्यापारो भवति, अथ मनुषे - विषयाधिगमाभिमानस्तस्मिन्सति भवतीति, को ऽयमभिमानो नाम, विषयानुभवाद्भिन्नः श्रभिन्नो वा, अभेदे सति तस्मिन्सति भवतीत्यसङ्गता वाचायुक्तिः, भेदे त्वस्मन्मतानुप्रवेशः, अपि च ज्ञानं विषयाधिगमे व्यापृतमिति कृत्वा विषयाधिगमाभिमानमुपजनयत्युत विषयाधिगमस्वभावत्वादेवेति विचारे विषयाधिगमात्पृथग्भूतस्य तत्र व्याप्रियमाणस्यानुपलम्भाद्विपयाधिगमस्वभावमेव ज्ञानमवधार्यते तत्कृतश्चाभिमान इति फलमेव ज्ञानमवकल्पते न करणमिति, तथा च लोकः फलत्वमेव ज्ञानस्यानुमन्यते न करणत्वम्, तथा ह्येवं वदति चक्षुषा पश्यामि लिङ्गेन जानामीति न तु ज्ञानेन जा नामीत्येवं व्यपदिशन्कश्चिद् दृश्यते,
ननु च सत्स्वपि चक्षुरादिषु विषयज्ञानमनुपजनयत्सु न करणतां व्यपदिशति लोको जनयत्सु च व्यपदिशतीति लोके करणेोत्पादकत्वादेव तेषां करणत्वव्यपदेशो न साक्षात्करणत्वादिति ।
तदयुक्तम्- चक्षुराद्ये करणं न तु तेनान्यत्करणमुपजन्यते किं हि तदन्यत्करणम्, ज्ञानमिति चेत् कस्यां क्रियायां तत्करणमिति परीक्ष्यतामेतत्, न ह्यात्मन्येव किं चित्करणं करणं भवतीति, यत् तु ज्ञानमजनयति चक्षुरादौ न करणतामाचष्टे लोकस्तद्युक्तमेव, न हि क्रियोत्पत्तावव्याप्रियमाणं करणं कारकं भवति तेन चक्षुरादेज्ञान क्रियामुपजनयतः करणत्वं ज्ञानस्य फलत्वमेवेति युक्तः स्तथा व्यपदेशः ।
प्रमाणस्य प्रमाणत्वं तस्मादभ्युपगच्छताम् । भिन्नं फलमुपेतव्यमेकत्वे तदसम्भवात् ॥
यस्तु (२) मूढतरः प्रमाणप्रमेयफलव्यवहारमेकन्त्रैव ज्ञानात्मनि निर्वाहयितुचच्छति
यदाभासं प्रमेयं तत्प्रमाणफलते पुनः ।
ग्राहकाकार संवित्त्योस्त्रयं नातः पृथक्कृतम् ॥ इति ।
(२) यः - बौद्धः विज्ञानवादोति यावत् ।