________________
न्यायमअर्याम्
मन एव निरङ्कुशं करणमिदानीं संवृतामिति कृतं चक्षुरादिमिः, अतश्च न कश्चिदन्धो बधिरो वा स्यात् , __ नैष दोषः-प्रथमप्रवृत्तसमनस्कबाह्येन्द्रियजनितविज्ञानविषयीकृतवपुषा बा. ह्यस्य वस्तुनो मनोग्राह्यत्वाभ्युपगमात्तस्यैव नियामकत्वान्नाशृङ्खलमन्तः करणं बाह्यविषये प्रवत्तते । .. ननु च सम्बन्धग्रहणकाले यदि मानसेन प्रत्यक्षेण सुखसाधनत्वावधारणं तहिं तत्काल इव व्यवहारकालेऽपि मानसप्रत्यक्ष एव सुखसाधनत्वनिश्चयो ऽस्तु किं तज्जातीयत्वलिङ्गापेक्षणेनेति मैवम्-शब्दलिङ्गोन्द्रियाद्यपरतो केवलमन्तःकरणं करणं कल्प्यते परिदृश्यमानायाः प्रतीतेरपह्नोतुमशक्यत्वात् , लिङ्गाधुपा. यान्तरसम्भवे तु यदि मन एव केवलं कारणमुच्यते तन्मानसमेवैक प्रमाणं स्यान्न चत्वारि प्रमाणानि भवेयुरित्यलं प्रसङ्गेन ।
तस्मात्सम्बन्धग्रहणकाले यत्तत्कपित्थादिविषयमक्षजं शानं तदुपादेयादि. ज्ञानफलमिति भाष्यकृतश्चेतसि स्थितम् । सुखसाधनत्वज्ञानमेवोपादेयादिशा. नमित्युक्तम् ।
ज्ञानस्य स्वस्मिन् करणत्वनिरास:आह-किमर्थमयमीदृशः क्लेश आश्रीयते प्रमाणादभिन्नमेव फलमस्तु त. देव चक्षुरादिजनितं कपित्थादिपदार्थदर्शनं विषयप्रकाशेन व्याप्रियमाणमिवा- . भातीति करणमुच्यताम् , तदेव विषयानुभवस्वभावत्वात्फलमिति कथ्यताम् । इत्थं च प्रमाणफले न भिन्नाधिकरणे भविष्यतः, अन्यत्र प्रमाणमन्यत्र फलमिति, तदुक्तम् 'सव्यापारप्रतीतित्वात्प्रमाणं फलमेव सत्' इति ।।
तदिदमनुपपन्नम्-प्रमाणस्य स्वरूपहानिप्रसङ्गात् , करणं हि प्रमाणमुच्यते प्रमीयते चानेनेति, न च क्रियैव क चित्करणं भवति क्रियायां साध्यायां का. रकं किमपि करणमुच्यते, तत्र यथा दात्रेण चैत्रः शालिस्तम्भं लुनातीति कर्तृकर्मकरणानि क्रियातो भिन्नान्युपलभ्यन्ते तथेहापि चक्षुषा घटं पश्यतीति दर्श. नक्रियातः पृथग्भाव एव तेषां युक्तो न दर्शनं करणमेवेति, प्रमा प्रमाणमिति तु फले प्रमाणशब्दस्य साधुत्वाख्यानमात्रं कृतिः करणमितिवत् ।। - यत्तु न भिन्नाधिकरणे प्रमाणफले इत्थं भविष्यत इति सेयमपूर्ववाचोयुक्तिः किमत्राधिकरणं विवक्षितं यदि तावद्विषयः तदस्त्येवैकविषयत्वम् , यद्विषयं हि दर्शनं स एव चक्षुरादेः करणस्य विषयः, आश्रयो ऽस्त्वधिकरणमिति बौद्धगृहे तावदवाचको ग्रन्थः, क्षणिकत्वेन सर्वकार्याणां निराधारत्वात् , अस्म : (१) एकात्माश्रयत्वमिति युक्तः पाठः ।