________________
प्रमाणपकरणम् मुपलभ्य हि तद्गतसुखसाधनत्वमनुस्मरति लोको न धूममिति ।
तेनानुमानविषये परामर्शो ऽतिदुर्घटः।
प्रत्यक्षविषये ऽप्येवं किमनेन शिखण्डिना ॥ यत्पुनरुपनयवचनमभिधेयरहितमप्रयोज्यं प्रसज्यते इति परिचोदितं तद. वयवप्रसङ्गएव निरूपयिष्यामः, तस्मादन्तरावर्तिनः परामर्शज्ञानस्याभावादा. धमालोचनाज्ञानमेव हेयादिज्ञानफलं यथोक्तरीत्या भविष्यतीति ।
ननु च प्रत्यक्षफलमिह मीमांस्यं वर्तते स चायं सुखसाधनत्वनिश्चयः त. ज्जातीयत्वाल्लिङ्गादुद्गम्यमान आनुमानिक इति न प्रत्यक्षफलतामवलम्बते स. त्यमेतत्-किं तु सम्बन्धग्रहणसमये सुखसाधनत्वनिश्चयः प्रत्यक्षजनितो ऽपि समस्ति यतो ऽनुमानं प्रवत्तते महानसादो धूमानिदर्शनवत् , अतः सम्बन्धमा हणकालभाविनं सुखसाधनत्वनिश्चयं चेतसि विधाय भाष्यकारस्तत्फलं प्रत्यक्ष. ज्ञानस्य वर्णितवानिति ।
शक्त प्रत्यक्षग्राह्यत्वनिरूपणम् - ननु सम्बन्धग्रहणकालेऽपि सुखसाधनत्वशक्तेरतीन्द्रियत्वात्कथं प्रत्यक्षगग्यता, तज्जातीयत्वाल्लिङ्गादेव तदाऽपि तद्हणे इष्यमाणे ततः पुनः सम्बन्धनहणादनवस्था, सुखादेव कार्यात्तदा तदवगम इति चेत् तदा ऽपि नाज्ञातसम्बन्धमवगतिजननसमर्थमिति तत्सम्बन्धग्रहणवेलायामपि शक्तिग्रहणे प्रत्यक्षस्याक्षमत्वादनुमानान्तरापेक्षायामनवस्था तदवस्था, उच्यते
न खल्वतीन्द्रिया शक्तिरस्माभिरुपगम्यते ।
यया सह न कायस्य सम्बन्धज्ञानसम्भवः ॥ स्वरूपसहकारिसन्निधानमेव शक्तिः सा च सुगमैव ।
ननु सहकारिणां मध्ये ऽदृष्टमप्यनुप्रविष्टं न च तत्प्रत्यक्षगम्यम् अतीन्द्रियत्वाद्धर्मस्येति सापि न सुगमा शक्तिः, नैतत्-न धर्मादिशक्तित्वादतीन्द्रियम् अपि तु तन्नैसर्गिकमेव जगद्वैचित्र्येण च तदनुमानं वक्ष्यामः तदेवं तदितरसहकारिस्वरूपसन्निधानात्मिकायाः शक्तः प्रत्यक्षग्राह्यत्वसम्भवादुपपन्नं तज्जातीयत्वलिङ्गस्य सम्बन्धप्रहणम् ।
ननु कपित्यादिकार्यस्य सुखस्येदानी न चक्षुर्ग्राह्यत्वमिति सम्बन्धिग्रहणाभावात्कथं चाक्षुषप्रत्ययगम्यः सम्बन्धः, न चाक्षुषप्रत्यक्षगम्यः सम्बन्धः कि तु मानसप्रत्यक्षगम्यः,
सुखादि मनसा बुद्ध्वा कपित्यादि च चक्षुषा ।
तस्य कारणता तत्र मनसैवावगम्यते॥ ननु च मनसा कपित्थादेः सुखसाधनत्वप्रहणाभ्युपगमे बापविषयप्रमिविषु
९ न्या०