________________
न्यायमञ्जर्याम् अनुमेयमितेः पूर्वमूर्ध्व च निगमे स्मृतः ।। अत एवार्थमालोक्य विनैव हि दवीयसा ।
बिलम्बेन व्यवस्यन्ति ग्रहणादिषु लौकिकाः ॥ • लिङ्गज्ञानं च विनश्यवस्थमनुमेयप्रतीतौ व्याप्रियमाणं प्रमाणतां प्रतिपत्स्यते, तत्कृतैवोपलभ्यानुवादेन लिङ्गिबुद्धिर्भविष्यति, तस्मात्कपित्थादिपदार्थद- . र्शनस्य परामर्शसोपानमनारोहत एवोपादेयज्ञानफलता वक्तु युक्तेति । - अपि च-अनुमयविषये वढ्यादौ सुखसाधनत्वानुस्मृतिकृतमुपादेयताज्ञान तव न समस्त्येव ततश्च तत्रापि तथा चायं ज्वलनजातीय इति परामर्शों भवता ऽभ्युपेय एव स च किंकरणक इति निरूपणीयम् , न तावदिन्द्रियद्वारकः पावकस्य परोक्षत्वात् , शब्दोपमाने त्वाशङ्कितुमपि तत्र न युक्ते, धूमाख्याल्लिगादेव स उत्पद्यते इति चेन्न, लिङ्गस्य परामर्शाविषयीकृतस्यानुमेयमितिजननन. पुणानभ्युपगमात् , धूमावमर्शस्य च तदानीमतिक्रान्तत्वात् ,तथा हि प्रथमं लि. गज्ञानं ततोव्याप्तिस्मरणं ततो धूमपरामर्शः ततो वह्निज्ञानं तेनधमपरामर्शस्यविनश्यत्ता ततोऽग्नौ सुखसाधनत्वानुस्मरणं तदा च धूमपरामर्शस्य विनाश एवेति तस्मिन्विनष्टे न केवलो धूमस्तदानीमनलपरामर्श जनयितुमुत्सहते, __ अग्नौ सुखसाधनत्वानुस्मरणानन्तरं पुनधूमज्ञानमिन्द्रि यादुत्पद्यत इति चेन्मैवम्-अननुभवात्, भवतु वा धमज्ञानं तथा ऽपि धूमज्ञानानन्तरं पुनः
ाप्तिस्मृतिः पुनधूमपरामर्शश्चावश्यं भवेद् इत्यत्रान्तरे हुतभुजि सुखसाधन. . त्वानुस्मतिरतिक्रान्तति तत्सहायपरामर्शज्ञानजन्यसुखसाधनत्व निश्चयोत्पादो न स्यात् , सुखसाधनत्वानुस्मरणेन हि विनश्यवस्थेन जन्यमानः प्रत्यक्षविषये ऽसो दृष्ट इति, __अथ मन्यसे न तदानीं पुनधूमज्ञानव्याप्तिस्मरणतत्परामर्शोत्पादादिज्ञानशृङ्खलाऽभ्युपेयते किं तु प्राक्तन एव धुमपरामर्शः कृशानो सुखसाधनत्वानुस्मरणानन्तरं स्मरिष्यते तेन स्मृतिविषयवत्तिना सता तथा चायमग्निजातीय इति ज्वलनपरामर्शी जनयिष्यते इति एतदप्ययुक्तम् , अग्निज्ञाना. नन्तरं युगपस्मरणद्वयोदयप्रसङ्गात्तदैव सुखसाधनतानुस्मृतिः तदैव धूमप. रामर्शस्मृतिरिति न हि क्रमोत्पादे किंचित्कारणमस्ति ज्ञानयोगपद्यं च शास्त्रे प्रतिषिद्धम् , भवतु वा क्रमोत्पादः तदापि स्मरणद्वयसमनन्तरमुपजायमानः पावकपरामर्शा नोपलभ्यानुवादेन जायते क्रमपक्षे ऽपि च वन्हिज्ञाना. नन्तरं तद्गतसुखसाधनत्वानुस्मरणमेव पूर्व भवेत् ततो धूमपरामर्शस्मरणं तेन तस्य विनश्यत्ता ततो ऽग्नो तज्जातीयत्वपरामशेस्तेन सुखसाधनत्वस्मृते विनाश एवेति पुनरपि सा विनष्टा सती सुखसांधनत्वानुस्मते निश्चयजम्मनिं न व्याप्रियेतेति, न च धूमलिङ्गानुमितवह्निज्ञानानन्तरं धूमस्मरणमुचितमनल.