________________
प्रमाणप्रकरणम्
स्य ततः अवगतः, यद्यपि न का चिदतीन्द्रियाशक्तिरस्मन्मते(१) विद्यते तथापि स्वरूपसहकार्यादिष्टादृष्टकारणसमूहसन्निधानस्वभावमपि सामर्थ्यमतीन्द्रियमेव, तस्मादेष कपित्थादिजातीयोऽर्थः सुखप्ताधनमिति वन्हिमपर्वतप्रतीतिवत्तज्जातीयलिङ्गकमानुमानिकमिदं ज्ञानं तदिदमनुमानफलमपि सुखसाधनत्वनिश्चयात्मकं ज्ञानमिन्द्रियविषये कपित्थादावुपादेयज्ञानमिन्द्रियार्थसन्निकर्षेण सह जनयत्प्रत्यक्ष प्रमाणं भवति, तदेव च हृदि व्यवस्थाप्य भाष्यकृद् (२)बभाषे, यदा ज्ञानं वृत्तिस्तदा हानोपादानोपेक्षाबुद्धयः प्रमितिरिति ।
प्रत्यक्षलक्षणे परामर्शानङ्गीकारपूर्वपक्षः-- व्याख्यातारस्तु ब्रुवते, नायमीदृशा ज्ञानानां क्रमः आद्यमालेाचनाज्ञानं सु खसाधनत्वानुस्मृतिमुपजनयतीति सत्यम् , स्मत्या च तस्य विनश्यत्ता विनश्य. दवस्थं चेन्द्रियविषये कपित्थादो सुखसाधनत्वनिश्चयमादधाति सुखसाधनत्व. ज्ञानमेव चोपादेयज्ञानमुच्यते नान्यत् , परामर्शस्तु न कश्चिदन्तराले इति किमसम्वेद्यमानज्ञानकन्थाकल्पनेनेति ।
ननु परामर्शज्ञानमनुभूयते एव, न तु कल्प्यते,धूमज्ञानानन्तरमविनाभावं 'यत्र धमस्तत्राग्निरित्यनुस्मृत्य परामशति तथा चायं धूम'इति, असति तु परा. मर्श न लिङ्गज्ञानं लिङ्गिनि प्रमाणतां प्रतिपद्यत स्मरणजनकं हि तत् , न च स्मतिजनकं प्रमाणमिष्यते, स्मरणान्तरं च लिङ्गप्रतीतिभवन्ती नोपलभ्यानुवा।। देन भवेदयमग्निमानिति, अपि च तथा च कृतकः शब्द इति यदुपनयवचनमवयवेषु पठ्यते तस्य किं वाच्यं भविष्यति परामर्शापलापवादिनाम् , स्वप्र. तिपत्तिवच्च परप्रतिपत्तिरवयवैजन्यते इति वक्ष्यामः, तस्मादप्रत्याख्येयः प. रामर्श इति । अत्र वदन्ति
न तावदन्तरा कश्चित्परामर्शों ऽनुभूयते । (१) अस्मन्मत इति । न तावन्मीमांसकदिवदतोन्द्रिया शक्तिरस्माभिरम्युपेयते किंतु कराणानां स्वरूपं वा सहकारिताकल्यं वा तत्रस्वरूपं हेतूनां प्रत्यक्षमेव सहकारिणां साकल्यं कार्यसमुत्पादव्यञ्जनीयम् ननु तत्तोयरूपमात्रदर्शनाच्छक्यानुमानं तत्किमपरमव. शिष्यते यदनुमानस्य गोचर इति अत्रोच्यते न वयमतीन्द्रियम् सामर्थ्यमातिष्ठामहे ना. पि सहकारिसाकल्यं किन्तु स्वरूपस्य कार्यसंबन्धिताम् नचेयं स्वरूपमेव इहस्थस्येव नारिके लाद्वीपादागतस्यापि वविदर्शनमात्रादाहकत्वावगप्रसङ्गात् तस्मात्कार्योपहितं स्वरूप. मनुमेयम् इति तात्पर्यटीका
(२) न्यायभाष्ये अ० १ आ० १८०३ 'वृत्तिस्तु संनिकर्षः ज्ञानमेव वा यदा स. त्रिकर्षस्तदा ज्ञानं प्रमितिः यदा ज्ञानं तदा हानापादानापेक्षाबुद्धयः फलम्। इति ।