________________
न्यायमञ्जर्याम् ननु समानाधिकरणे एव ज्ञानप्रत्यक्षपदे कथं न व्याख्यायेते किं यतःशब्दाध्याहारण, उक्तमत्र करणस्य प्रमाणत्वाज्ज्ञानस्य च तत्फलत्वात् फलकरणयोश्च स्वरूपभेदस्य सिद्धत्वात् , तदत्र--
प्रमाणतायां सामग्रयास्तज्ज्ञानं फलमिष्यते ।
तस्य प्रमाणभावे तु फलहानादिबुद्धयः॥ ननु स्मृत्याद्यनेकबुद्धिव्यवधानसम्भवात्कथमिन्द्रियार्थसन्निकर्षीत्पन्नमालाचनाज्ञानं हानादिफलं भवेत् , तथा हि कपित्थादिजातीयमर्थमिन्द्रियादिसन्निकर्षादिसामग्रीत उपलभ्य तद्गतं सुखसाधनत्वमनुस्मरति एवञ्जातीयकेन मम पूर्व सुखमुपजनितमभूदिति, ततः स्मृत्यनन्तरं परामर्शज्ञानमस्योपजायते अयं च कपित्थजातीय इति, परामर्शानन्तरं सुखसाधनत्वनिश्चयो भवति तस्मादेष सुखसाधनमिति, तत उपादेयज्ञानमुत्पद्यते, यत एष सुखसाधनं कपित्थादिजातीयः पदार्थस्तस्मादुपादेय इति, अत्रान्तरे प्रथमस्येन्द्रियार्थसन्निकर्षजन्मनः कपित्थालोचनज्ञानस्य नामापि नावशिष्यते इति कथमस्य तत्फलत्वमिति ।
तात्पर्यटीकाकर्तृमतानरूपणम्___ अत्राचार्यास्तावदाचक्षते(१) साधु चोदितं सत्यमीदृश एवायं ज्ञानानां क्रमः, न वयं प्रथमालोचनज्ञानस्य उपादानादिषु प्रमाणतां ब्रूमः, तथा हि प्रथममिन्द्रियार्थसन्निकर्षोंत्पन्नमालोचनज्ञानमिन्द्रियार्थसन्निकर्षादिसामग्रीस्वभावस्य प्रत्यक्षस्य प्रमाणस्य फलमेव न तु स्वयं प्रमाणतां प्रतिलभते स्मृतिजनकत्वात् , तदनन्तरं हि सुखसाधनत्वस्मृतिर्भवतीति सेयमनुस्मृतिरप्रमाणफलमपि सती प्रत्यक्षप्रमाणं सम्पद्यते, तथायं कपित्थादिजातीय इतीन्द्रियविशेषपरामर्शोत्पत्ती इन्द्रियार्थसन्निकर्षेण सह व्याप्रियमाणत्वात् , स पुनः परामर्शप्रत्ययः प्रत्यक्षजनितो धूमज्ञानवदनुमानं प्रमाणमुच्यते, परोक्षस्याग्नेरिव सुखसाधने सामर्थ्य:
(१) अनाचार्या इति । तथा च तात्पर्यटीका-यदा ज्ञानमालोचनं वा विकल्पा वा व्यापार इन्द्रियादीनां तदा हानापादानापेक्षाबुद्धयः फलम् तत्रोपादेयमिदं सलि. लमितिबुद्धिरनागतोपादानविशिष्टम् सलिलमालम्बमानान साक्षात्कारवती सलिलमा साक्षात्कारस्तु स्यात न च तन्मात्रस्य फलमपि तूपादेयता साच पराना अनागतत्वात तस्माद्पादीयतेऽनेनेत्युपादानम् उपादानम् चासौ बुद्धिश्चेत्युपादानबुद्धिः तत्र तोया. लोचनमयतोयविकल्पोऽथ च तज्जातीये दृष्टचरपिपासेोपशमनहेतुभावस्य स्मृतिबीजसंस्कारोवाधःअथ तस्य स्मरणम् अथ लिङ्गपरामर्शः तज्जातीयं चेदं तदिदं लिङ्गपरामर्शविज्ञानं साक्षात्कारवत् लिङ्गे विनश्यदयस्थव्याप्तिस्मरणसहकारि दृश्यमानस्य सलिलस्य पिपासोपामहेतुतया अनुमानमुखेनोपादानबुद्धिरुच्यते इति ।