________________
प्रमाणप्रकरणम्
प्रत्यक्षलक्षणम्एवं प्रमाणानां सामान्यलक्षणे विभागे च निर्णीते सति अधुना विशेषल. क्षणवर्णनावसर इति सकलप्रमाणमूलभूतत्वेन पूर्वपठितत्वेन च ज्येष्ठत्वात्प्रथम प्रत्यक्षस्य लक्षणं प्रतिपादयितुमाहइन्द्रियार्थसन्निकर्षात्पन्नं ज्ञानमव्यपदेशमव्यभिचारि व्य.
वसायात्मकं प्रत्यक्षम् ॥ ४ ॥ प्रत्यक्षमिति लक्ष्यनिर्देशः इतरल्लक्षणम् , समानासमानजातीयव्यवच्छेदो लक्षणार्थः, समानजातीयं प्रमाणतया अनुमानादि विजातीयं प्रमेयादि ततो व्यवच्छिन्नं प्रत्यक्षस्य लक्षणमनेन सूत्रेणोपपाद्यते ।
अत्र चोदयन्ति-इन्द्रियार्थसन्निकर्षोत्पन्नत्वादिविशेषणैः स्वरूपं वा विशिप्यते सामग्री वा फलं वा, तत्र स्वरूपविशेषणपक्षे यदेवस्वरूपं ज्ञानं तत्प्रत्यक्षमिति तत्स्वरूपस्य विशेषितत्वात्फलविशेषणानुपादानाच्च लक्षणमव्याप्त्यतिव्याप्तिभ्यामुपहतं स्यात् , अव्याप्तिस्तावद् अतथाविधस्वरूपस्य बोधस्येन्द्रियादेश्व निर्मलफलजनकतया लब्धप्रमाणभावस्यापि प्रामाण्यं नोक्तं भवेत् , अ. तिव्याप्तिश्च तथाविधस्वरूपस्यापि ज्ञानस्याकारकस्य वा संस्कारकारिणो वा स्मृतिं जनयतो वा संशयमादधानस्य वा विपर्ययमुत्पादयतो वा प्रमाणत्वं प्रा. प्नोति फलस्याविशेषितत्वात् , तद्विशेषणभिधाने पुनरश्रतसूत्रान्तराध्याहारप्रसक्तिः अव्याप्तिश्च तदवस्थेति न स्वरूपविशेषणपक्षः, नापि सामग्रीविशेषणप. क्षः, तत्र हीन्द्रियार्थसन्निकर्षोत्पन्नमिति इन्द्रियार्थसन्निकर्षांपपन्नं सामग्रयमिति व्याख्यातव्यम् , अव्यपदेशमव्यभिचारि व्यवसायात्मकं ज्ञानमिति च त. ज्जनकत्वादुपचारेण तथा साकल्यं वर्णनीयमिति क्लिष्टकल्पना, फलविशेषणपक्षो ऽपि न सङ्गच्छते, ज्ञानप्रत्यक्षयोः फलकरणवाचिनोः सामानाधिकरण्यप्रसङ्गात् , प्रमाणलक्षणप्रस्तावात्प्रत्यक्षं प्रमाणमुच्यते तच्च करणमिति वर्णितम्, ज्ञानं तु तदुपजनितं फलमिति कथमैकाधिकरण्यं तस्मात्पक्षत्रयस्याप्ययुक्तियु. क्तत्वात्पक्षान्तरस्याप्यसम्भवादयुक्तं सूत्रमिति । .. अत्रोच्यते, स्वरूपसामग्रीविशेषणपक्षौ तावद्यथोक्तदोषोपहतत्वान्नाभ्युपगम्येते, फलविशेषणपक्षमेव संमन्यामहे, तत्र च यद्वैधिकरण्यं चोदितं तद्यतः शब्दाध्याहारेण परिहरिष्यामः, यत एवं यद्विशेषणविशिष्टं ज्ञानाख्यं फलं भवति तत्प्रत्यक्षमिति सूत्रार्थः, इत्थं च न क चिदव्याप्तिरतिव्याप्तिर्वा न का चित् किंष्टकल्पना यतःशब्दाध्याहारमात्रेण निरवद्यलक्षणोपवणनसमर्थसूत्रपदसङ्गति. सम्भवात्।