________________
न्यायमअर्याम्
वक्राङ्गुलिः प्रविरलाङ्गुलिरेष पाणिरित्यस्ति धीस्तमसि मीलितचक्षुषो वा। नेयं त्वगिन्द्रियकृता न हि तत्करस्थं तत्रैव हि प्रमितिमिन्द्रियमाधाति । दूरात्करोति निशि दीपशिखा च दृष्टा पर्यन्तदेशविस्तासु मतिं प्रभासु । धत्ते धियं पवनकम्पितपुण्डरीक. पण्डोनुवातमुवि दूरगते ऽपि गन्धे ।। स एवम्प्रायसंवित्तिसमुत्प्रेक्षणपण्डितः । रूपं तपस्वी जानाति न प्रत्यक्षानुमानयोः । प्रत्यक्षाद्विरलकराङ्गुलिप्रतीतिव्योपित्वादकुशलमिन्द्रियं न तस्याम् ।
आनाभेस्तुहिनजलं जनैः पिबद्भिस्तत्स्पशः शिशिरतरो ऽनुभूयते ऽन्तः ।। संयोगबुद्धिश्च यथा तदुत्था तथैव तज्जा तदभावबुद्धिः । क्रियाविशेषग्रहणाच्च तस्मादाकुन्चितत्वावगमोङ्गुलीनाम् ॥ पद्मामोदविदूरदीपकविभाबुद्धिः पुनरौगिकी व्याप्तिज्ञानकृतेति का खलु मतिर्मानान्तरापेक्षिणी । संख्याया नियमः प्रमाणविषये नास्तीत्यतो नास्तिकै. स्तत्सामर्थ्यविवेकशून्यमतिभिमिथ्यैव विस्फूर्जितम् ॥ इयत्त्वमविलक्षणं नियतमस्ति मानेषु नः प्रमेयमपि लक्षणादिनियमान्वितं वक्ष्यते । अशक्यकरणीयतां कथयतां तु तत्त्वं सतां समक्षममुना ऽत्मनो जडमतित्वमुक्तं भवेत् ।।
इति श्रीजयन्तभट्टकृतायां न्यायमार्या प्रथममाहिकम् ।