________________
प्रमाणप्रकरम्
अभावभेदनिरूपणम् - स च द्विविधः प्रागभावः प्रध्वंसाभावश्चेति, चतुर्विध इत्यन्ये इतरेतरा. भावः अत्यन्ताभावश्च तौ च द्वाविति, षट्प्रकार इत्यन्ये अपेक्षाभावः सामोभावस्ते च चत्वार इति । तत्र च
प्रागात्मलाभान्नास्तित्वं प्रागभावो ऽभिधीयते । उत्पन्नस्यात्महानं तु प्रध्वंस इति कथ्यते ॥ न प्रागभावादन्ये तु भिद्यन्ते परमार्थतः । स हि वस्त्वन्तरोपाधिरन्योन्याभाव उच्यते ।। स एवावधिशून्यत्वादत्यन्ताभावतां गतः । अपेक्षाभावता तस्य देशोपाधिनिबन्धना ॥ सामर्थ्य पूर्वसिद्धं चेत्प्रध्वंसे तदभावधीः । नो चेत्तर्हि विशेषो ऽस्य दुर्लभः प्रागभावतः ।। उत्पन्नस्य विनाशो वा तदनुत्पाद एव वा । अभावस्तत्त्वतोऽन्ये तु भेदास्त्वौपाधिका मताः ॥ तस्मादभावाख्यमिदं प्रमेयं तस्येन्द्रियेण ग्रहणं च सिद्धम् । अतः प्रमाणेषु जगाद युक्तं चतुष्ट्वमेतन्मुनिरक्षपादः ॥
सम्भवैतिह्ययोर्मानान्तरत्वनिरास:ननु नाद्यापि चतुष्टमेवमवतिष्ठते सम्भवैतिथे इति द्वयोः प्रमाणान्तरभावात् , सम्भवो नाम समुदायेन समुदायिनो ऽवगमः सम्भवति खायों द्रोणः सम्भवति सहस्र शतमिति, अनिर्दिष्टप्रवक्तृकं प्रवादपरम्परा चैतिह्यम् , इह वटे यक्षः प्रतिवसतीति, न चायमागमः, आप्तस्योपदेष्टुरनिश्चयादिति तदनुपपन्नम् ।
भिन्नः सम्भव एष न ह्यनुमितेराख्यायि खार्यामतो द्रोण: सम्भवतीति सेयमविनाभावान्मतिलैङ्गिकी। ऐतिह्यं तु न सत्यमत्र हि वटे यक्षो ऽस्ति वा नेति वा
को जानाति कदा च केन कलितं यक्षस्य कोहग्वपुः ॥ सत्यमपि चागमात्पृथग्नैतिद्यमुपदेशरूपत्वात् , आप्तग्रहणं सूत्रे न लक्ष. णायेति वक्ष्यामः, चार्वाकधूर्तस्तु अथातस्तत्त्वं व्याख्यास्याम इति प्रतिज्ञाय प्रमाणप्रमेयसंख्यालक्षणनियमाशक्यकरणीयत्वमेव तत्त्वं व्याख्यातवान् , प्रमाणसंख्यानियमाशक्यकरणोयत्वसिद्धये च प्रमितिभेदान प्रत्यक्षादिप्रमाणानुपज. न्यानीदृशानुपादर्शयत् ।