________________
५८
न्यायमअर्याम् घटो हि न प्रतीयते न तुतभावः प्रतीयते इत्येवं वदद्भिरेभिर्दर्शनादर्शने एव पदार्थानां सदसत्त्वे इति कथितं स्यात, एतच्चायक्तम, दर्शनादर्शनाभ्यां हि सदसत्त्वे निश्चीयेते न तु दर्शनादर्शने एवसदसत्त्वे
न चाप्रतीतिमात्रेण तदभावनिबन्धनाः । व्यवहाराः प्रकल्पन्ते मृदन्तरिततोयवत् ।। खपुष्पस्य पिशाचस्य मदन्तरितवारिणः । न खल्वनुपलभ्यत्वे विशेषः प्रतिभाति नः ॥ सर्वदा ऽनुपलम्भो हि कुर्वन्नास्तित्वनिश्चयम् । विशेष्यते मदन्तःस्थसलिलानुपलब्धितः॥
आगमाद्यक्तितश्चापि सत्त्वसम्भावनां गतः ।
सर्वदा ऽनुपलब्धो ऽपि न पिशाचः खपुष्पवत ।। अतश्च यदुच्यते अनुपलब्धेः पुनरनुपलब्धिरेवानुपलब्धिरिति तद्भणिति. मात्रम, खपुष्पादेस्तु सविशेषणया ऽनुपलब्या ऽभाव एव निश्चीयते न तस्यानुपलब्धिमात्रम्।
अनिष्यमाणे चाभावे भावानां प्रतियोगिनि । नित्यतैषां प्रसज्येत न ह्येते क्षणिकास्तव ।। मुद्गरादेश्च कि कार्य कपालपलपटलीति चेत् ।
घटस्तयविनष्टत्वात्स्वकार्य न करोति किम् ॥ अदर्शनादिति चेत् -
तदानीमेव दृष्टस्य स्थिरस्यामुष्य किं कृतम् ।
सर्वेन्द्रियादिसामग्रीसन्निधाने ऽप्यदर्शनम् ।। तस्मात्तदभावकृतमेव तदानीं तस्यादर्शनम् ।
स्वप्रकाशा च नास्तीति संवित्तिर्भवतां मते । न निरालम्बना चेयमस्तीतिप्रतिपत्तिवत् ।। विकल्पविषयाः शब्दा यथा शौद्धोदनेगृहे (१)। गीयन्ते भवता नैवमिति नब्वाच्यमुच्यताम् ।। प्रसिद्धिश्च परित्यक्ता न चाभावः पराकृतः । उपेक्षितश्च भाष्यार्थ इत्यहो नयनपुणम् ।। अलं च बहुनोक्तेन विमदोंऽत्र न शोभते ।
महात्मनां प्रमादो ऽपि मर्षणीयो हि मादृशैः ॥ तस्मानास्तीति प्रत्ययगम्यो ऽभाव इति सिद्धम् ।
(१) शौद्धोदने:-बौद्धस्य ।