SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ प्रमाण प्रकरणम् क्षेत्र भवन... यत्तु भवनधर्मा श्रभवनधर्मा वेति विकल्पितं तत्र भवनधर्मैवाभावो ऽभ्युपगम्यते भवनधर्मत्वेऽपि चाभावो न भावान्न भिद्यते प्रतिभासभेदस्य रूपरसादिषूपदर्शितत्वात् भवनधर्मत्वं चास्य हेत्वन्वयव्यतिरेकित्वाद्भवति घटो हि मृत्पिण्डदण्डादीनिव जन्मनि विनाशे ऽपि मुद्गरादीननुवर्त्तते हेतून्, विजातीयसन्ततिजननपक्षे ऽपि सहशसन्तानजनिकायाः शक्तेरभावः क्रियते एवान्यथा मुद्गराद्युपनिपाते ऽपि विजातीयेव सजातीय सन्ततिर भिजायेत, सजातीयविजातीयोभयसन्ततिजननशक्तियुक्तो घट इति चेद् मुद्गरादियोगात्पूर्वमपि कपालसन्ततिजननं तद्योगे ऽपि वा सति घटसन्ततिजननमनियमेन दृश्येतेति, विजा तीय क्षणोत्पादनस्वभावे च घटे मुद्गरादेवैयर्थ्यमेव स्यात् । 33 तदुत्पादस्वभावे हि न किञ्चिन्मुद्गरादिना । अतदुत्पादकत्वे ऽपि न किञ्चिन्मुद्गरादिना ॥ मुद्गरोपनिपाताच्च यद्युत्पन्नं क्षणान्तरम् । घटक्षणस्य कं वृत्तं येन नाभाति पूर्ववत् ॥ नन्वस्याभवनं वृत्तं स एवार्थो ऽयमुच्यते । घना किमपराद्धं वा किं वाप्युपकृतं ल्युटा || ननूक्त' न तस्य किं चिद्भवति न भवत्येव केवलमिति तदयुक्तम् यदसौ न भवति स एवास्याभाव: । प्रमानवा. ३/२१७ ननु स न न तु तस्याभाव:, मैवम्-स नेतिशब्दयोज्ञानयोश्च विषयभेदात्, स इति ज्ञानस्य स्मर्यमाणो घटादिर्विषय: नेति तु ज्ञानम्याभावो भूमिरित्यलमलोकविदग्धविरचितविफलवक्रवचनविमर्देन । तस्मादित्थमभावस्य प्रमेयत्वोपपादनात् । न सद्व्यवहाराय कल्पन्ते ऽनुपलब्धयः ॥ न स्वभावानुमाने च तदन्तर्भावसम्भवः । मेयं पृथगभावाख्यममूषामुपपादितम् ॥ कारणानुपलब्ध्यादेर्बाढमस्त्वनुमानता । स्वभावानुपलब्धिस्तु प्रत्यक्षमिति साधितम् ॥ या चेयमेकादशांनुपलब्धिवधूशुद्धान्तमध्ये विरुद्धव्याप्तोपलब्धिरुदाहृता नावभावी भूतस्यापि भावस्य विनाशो हेत्वन्तरानपेक्षणादिति, सेयमिदानी मेव साध्वी दूषिता विस्तरतस्तु क्षणभङ्गभङ्गे दूषयिष्यते । अभाव नभ्युपगन्तृप्राभाकरमतनिराकरणम् यैस्तु मीमांसकैस्सद्भिरभावो नाभ्युपेयते । प्रमादेनामुना तेषां वयमप्यद्य लज्जिताः ॥ ८ न्या०
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy