________________
५६
म्यायमञ्जयाम्
णम्, अपितु नास्तीति ज्ञानगम्यत्वं सत्प्रत्ययगम्या हि भाव इष्यते असत्प्रत्ययग म्यस्त्वभाव इति, तदिदमुक्तं 'सदसती तत्त्वम्' इति (१) ।
ननु भाववदेष ज्ञानजनकः सन्नभावो न भावाद्विशिष्यते हो निपुणदर्शी देवानाम्प्रियः प्रतीतिभेदश्चास्ति तत्र प्रतीयमानौ भावाभावौ न भिद्येते इति कथमेवं भवेद् अपि रे मूढ़ ज्ञानजनकत्वाविशेषे ऽपि रूपरसौ कथं भिद्येते प्रतीतिभेदादिति चेद् भावाभावावपि जनकत्वधर्मसामान्ये ऽपि प्रतीतिभेदादेव भिद्येयाताम्, न हि प्रतिभास्यभेदमन्तरेण प्रतिभासभेदो भवतीति भवता इप्यभ्युपगतम् ।
प्रामाण्यं वस्तुविषयं द्वयोरर्थभिदां जगौ ।
प्रतिभासस्य चित्रत्वादेकस्मिंस्तदयोगत इति ॥
तस्मादस्तीति प्रतीतेरेव भावः नास्तीति प्रतीतेरभावो भूमिरित्यभ्युपगम्यताम्, अथ वा विज्ञानवाद एव सुस्पष्टमास्थीयतामन्तरावस्थानं तु न साम्प्रतम्, अर्थक्रिया सामर्थ्यमपि तम्य दर्शितमेव ।
.
स्वज्ञानाख्य क्रियाशक्तिरमुष्य दुरपह्नवा ।
अर्थक्रिया ऽन्यजन्या तु न भावेनापि जन्यते ॥ एवं च सति यः पूर्व शक्तिवादो ऽत्र वर्णितः । स प्रत्यक्षविरुद्धत्वात्कण्ठशोषाय केवलम् ॥
"
तथा सम्बन्धाभावादिति यदुक्तं तत्र देशेन सह तावदभावस्य विशेषणविशेष्यभावः सम्बन्धः स तु सम्बन्धान्तरमूल इति भावे ऽयं नियमो नाभावे, न च भावे ऽप्येष नियमो न ह्येवं भवति यत्सम्बद्धं तद्विशेषणमेव पादपीडिते शिरसि वा धार्यमाणे दण्डे दण्डीति प्रत्ययानुत्पादात, नाप्येवं यद्विशेषणं तत्सम्बद्धमेवेति समवायस्य सत्यपि विशेषणत्वे सम्बन्धान्तराभावात् तस्मात्सम्बन्धान्तररहितोऽपि प्रतिबन्ध इव वाच्यवाचकभाव इव विशेषणविशेष्यभावः स्वतन्त्र एव सम्बन्धस्तथाप्रतीतरवधार्यते, उभयेोरुभयात्मकत्वात्कदा चित्कस्य चित्तथा प्रतिभासात्पुरुषेच्छानुवर्त्तनेन व्यत्यय प्रत्ययत्वेऽपि न दोष:, तस्माद्विशेषणविशेष्यभाव एव सम्बन्धो देशे भूतलादिना सहाभावस्य सम्बन्धः, एवं कालेनापि सह स एव वेदितव्यः, क्रियया कर्तृस्थया वा गमनादिकया कर्मस्थया वा भेदनादिकया सह संयेोगाद्यभावे ऽपि विशेषणविशेष्यभाव एव सम्बन्धः तद्वदभावस्यापि भविष्यतीति, प्रतियोगिना तु सह विरोधो ऽस्य सम्बन्धः श्रयमेव च विरोधार्थः यदेकत्रो भयोरसमावेशः, अतश्चैकविनाशे न सर्वविनाशो घटाभावस्य घटैकप्रतियोगित्वात् ।
( १ ) न्यायभाष्ये अ० १ ० १ सू० १ ।