________________
प्रमाणप्रकरणम्
M
तदिह घटो नास्तीति घटविविक्तभूतलालम्बनतायामस्याः स्वसंविदः इहेति तावदस्मिन्संविदंशे देश आलम्बनमित्यविवाद एव, इह घटो ऽस्तीति भावनतीति समये ऽपि तत्र तदवभोसाभ्युपगमात् , घटो नास्तीत्यत्र तु यवभासते तन्न भूतलमात्रमेव भावप्रतीतिसमयं तदतिरिक्तप्रतिभासस्यावश्यम्भावित्वात् , तदतिरिक्तं तु प्रतिभासमानं घटविविक्ततेति वा कथ्यतां घढ़ाभाव इति वा नात्र वस्तुनि विशेषः,
ननु घटो नास्तीति विकल्पमात्रमेतत, न दर्शनानन्तरप्रवृत्तत्वेन विधिविकल्पतुल्यत्वात् ।
यथानुभवमुत्पत्तुमर्हन्ति किल कल्पनाः । प्रतिषेधविकल्पस्तु न विध्यनुभवोचितः ।। ननु नैव विकल्पानां वयं प्रामाण्यवादिनः । कामं विधिविकल्पानामपि मा भूत्प्रमाणता ॥ प्रामाण्यं दर्शनानां चेत्त्वविकल्पानुसारतः । चत्वाव)
इहापि तेषामेवास्ति तद्वि कल्पानुसारतः ॥ । वस्तुप्राप्त्या विधिविकल्पानां प्रामण्यव्यवहार इति चेद् इहापि तत्प्राप्त्यैव निषेधविकल्पानामस्तु प्रामाण्यव्यवहारः, किमत्र वस्तु प्राप्यते इति चेत्तत्रापि किं प्राप्यते, नीलमिति चेत् सेयमभावस्यापि प्राप्तिर्भवत्येव नीलं हि प्राप्यमाणं तदभावाविनाभूतपीतादिव्यवच्छिन्नरूपं प्राप्यते सा चेयं तथाभूतनीलप्राप्तिर्भव. न्तीतराभावप्राप्तिरपि भवत्यन्यथा हि नीलप्राप्तिरेव न स्यादिति, एतच्च लाक्षणिकं विरोधमाचक्षाणैर्भवद्भिरेवोपगतम्।।
सुखदुःखसमुत्पत्तिरभावे शत्रुमित्रयोः । कण्टकाभावमालक्ष्य पदं पथि निधीयते ।। प्रागुत्पत्तेर्घटाभावं बुद्ध्वा तत्कारणादरः । व्याध्यभावपरिच्छेदाझैषज्यविनिवर्त्तनम् ।। इहाभावप्रतिष्ठानव्यवहारपरम्पराम् ।
पश्यन्नभावं को नाम निन्हुवीत सचेतनः ।। ननु नाजनकमालम्बनं भवति ज्ञानस्याभावस्तु सकलोपाख्याविनिर्मुक्तस्व. रूप इति न ज्ञानजननपटुः अतः कथं तदालम्बनम् , उच्यते, सौगतानां तावन्न कि चिजनक वस्तु प्रतिभासते द्वित्रिक्षणावस्थितिप्रसङ्गेन क्षणभङ्गव्रतविलोपप्रसङ्गात् , उत्पद्यते चार्थज्ञानं च जनयति जातेन तेन गृह्यते चेत्यासां क्रियाणामेककालत्वाभावात , तस्मादकारक एव भावः प्रतिभासते आकारार्पणपतंच प्रतिक्षेप्स्यामः, एवं भाववभावो ऽप्यजनकः प्रतिभासताम् , अस्माभिस्तु भाववदभावो ऽपि ज्ञानजननसमर्थ इष्यते न हि निःशेषसामर्थ्यरहितत्वमभावलक्ष.