________________
५४.
न्यायमञ्जर्याम् ननु योग्यता भावास्मिकाऽनुपलब्धिस्त्वभावस्वभावेति कथमनर्थान्तरत्वम् नैतदेवम् नापलब्धिप्रतिषेधात्मिकामभावस्वभावामनुपलब्धिमनुपलब्धिविदो व दन्ति किं तु प्रतिषेधपर्यदस्तवस्त्वन्तरोपलब्धिमेवार्थाभावत्वभावामिति, अत एवेदमपि न चोधम् अनुपलब्धेरभावात्मकत्वादनुपलब्ध्यन्तरपरिच्छेद्यत्वादनवस्थेति, यस्माद्वस्त्वन्तरोपलम्भात्मिकाऽनुपलब्धिः स्वसंवेद्यैवेति । __ नन्वनुपलब्धेरसद्वयवहारसिद्धावदृष्टस्यापि तथात्वं सिध्येद् न, दृश्यत्वविशेषणोपादानादुपलब्धिलक्षणप्राप्तस्यानुपलब्धेरसद्वयवहारो न-यस्य कस्य चिदिति, तत्र
घटादेः पूर्वदृष्टस्य दृश्यत्वपरिनिश्चयात् । असत्त्वव्यवहारो हि सिध्यत्यनुपलब्धितः ।। एकान्तानुपलब्धेषु(१) विहायःकुसुमादिषु । (असत्वाधीन) दृश्यत्वयोग्यताऽनवधारणात्।। न शक्यो ऽनुपलम्भेन कतुं नास्तित्वनिश्चयः । तत्रापि त्वपिशाचो ऽयं चैत्र इत्येवमादिषु ॥ तादात्म्यप्रतिषेधे च दृश्यत्वं नोपयुज्यते । पिशाचेतररूपो हि चैत्रः प्रत्यक्षगोचरः ।। तादप्यनिश्चये तस्य किं फलं तद्विशेषणम् । इत्यसदयवहारस्य सिद्धेरनुपलब्धितः ।। न भाववदभावाख्यं प्रमेयमवकल्पते।
स्वमतेनाभावस्तुत्वस्थापनम् - अत्राभिधीयते, इदं तावत्सकलप्राणिसाक्षिकं संवेदनद्वयमुपजायमानं है. हम इह घटो ऽस्ति इह नास्तीति तत्र विकल्पमात्रसंवेदनमनालम्बनमात्मांशावलम्बनं वेत्यादि यदभिलप्यते तन्नास्तिताज्ञान इवास्तित्वज्ञाने ऽपि समानमतो द्वयोरपि प्रामाण्यं भवतु द्वयारपि वा मा भूत् , यत्त्वस्तीति ज्ञानं प्रमाणमितरदप्रमाणमिति कथ्यते तदिच्छामात्रम् , अस्तीति ज्ञानसमानयोगक्षेमत्वे च ना. स्तीति ज्ञानस्य विषयश्चिन्तनीयः।
ननु घटविविक्तभूतलोपलम्भभावे घटानुपलम्भ इत्युक्तं तदयुक्तम्, केयं घटविविक्तता सा भूप्रदेशादभिन्ना भिन्ना वा, अभेदे भूप्रदेशाविशेषाद् घटसनिधाने ऽपि घटो नास्तीति प्रतिपत्तिजोयेत भेदे तु नाम्नि विवादः स्यात् ।
भेदाभेदे न चिन्त्या च घटादपि विविक्तता।
अभेदे घट एव स्याद्रेदे चाभाव एव सा॥ . (१) विहापाकुसमम्-संपुष्पम् ।