________________
प्रमाणप्रकरणम्
प्रभावस्वभावतायाश्च सर्वान् प्रत्यविशेषात्प्रतिषेध्यनिबन्धन एव तद्भेदः प्रतिषेध्याश्च भावाः परस्परेण भिद्यमानास्तं भिन्दन्तीति प्रत्युत भावाधीनम. भावानामसाङ्कय वक्तुमुचितं नतु विपर्ययो युक्तः, तदखिलपदार्थव्यवस्थाविसं. ठुलीभावभयादपि नाभावाभ्युगमो युक्तः ।
नन्वभावप्रतिक्षेपे नत्रः किं वाच्यमुच्यताम् । नैव शब्दानुसारेण वाच्यस्थितिरुपेयते ॥ बौद्धाः खलु वयं लोके सर्वत्र ख्यातकोत्तयः । विकल्पमात्रशब्दार्थपरिकल्पनपण्डिताः ।। क चिन्नामपदप्राप्तवृत्तिना जन्यते नया। निषेधपर्युदस्तात्मविषयोल्लेखिनी मतिः ।। क चित्त्वाख्यातसम्बन्धमुपेत्य विधात्यसौ । तदुपात्तक्रियारम्भनिवृत्त्युल्लेखमात्रकम् । ननु चानेन मार्गण यदि भावो निरस्यते । एकादशप्रकारेषा ऽनुपलब्धिः क गच्छतु ।
एकादशविधानुपलब्धिनिरूपणम्स्वभावानुपलब्धिः यथा नेह घटो ऽनुपलब्धेरिति, कारणानुपलब्धिर्यथा नात्र धूमो दहनानुपलब्धेरिति, व्यापकानुपलब्धिर्यथा नात्र शीतस्पर्शः पावकोपलब्धेरिति, कायोनुपलब्धिर्यथा नात्र निरपवादा धूमहेतवः सन्ति धूमानुपलब्धरिति, स्वभावविरुद्धोपलब्धिर्यथा नात्र शीतस्पर्शः पावकोपलब्धेरिति, स्वभावविरुद्धकार्योपलब्धियथा नात्र शीतस्पर्णी धूमोपलब्धेरिति, विरुद्वव्याप्तोपलब्धिर्यथा नाधृवभावी भूतस्यापि भावस्य विनाशा हेत्वन्तरापेक्षणादिति, कार्यविरुद्धोपलब्धियथा नात्र शीतकारणमप्रतिबद्धसामर्थ्यमस्ति ज्वलनोपलब्धेरिति, व्यापकविरुद्धोपलब्धियथा नात्र तुहिनस्पशः कृशानुदर्शनादिति, कारणविरुद्धोपलब्धियथा नैतस्य रोमहर्षदन्तवीणादिविशेषाः सन्ति सन्निहितहुतवहाधिष्ठितविशेषादिति, कारणविरुद्धकार्योपलब्धिर्यथा प्रवृत्तदन्तवीणादि. विशेषपुरुषाधिष्ठित एष देशो न भवति धूमवत्त्वादिति ।
सत्यमेकादविधाऽनुपलब्धिरिहेष्यते।
सा स्वसद्यवहारस्य हेतुनोभावसंविदः॥ नन्वनुपलब्धेः स्वभावहेतावन्तभोव उक्तः स्वभावहेतौ च साध्यसाधनयोरव्यतिरेक इष्यते, असद्वयवहारश्च ज्ञानाभिधानात्मकत्वात्तत एव पृथगिति कथं तद्विषयतां यायात् , सत्यमेवम्-किन्तु नासद्यवहारस्तया साध्यतेऽपि तु तद्योग्यता योग्यता च न ततोऽर्थान्तरमिति न स्वभावहेतुत्वहानिः ।