________________
न्यायमञ्जयाम् भ्युपगमे वा घटतदभावयोरिव वध्यघातकयोः साहचर्यमनुभूयेते, घटाभाव: किं कुर्वन् घटं विरुन्ध्याद् अकिञ्चित्करस्य विरोधित्वेऽतिप्रसक्तिः अभावा. न)न्तरकरणत्वेऽनवस्था) मुद्गरादयो घटस्य नाभावहेतवो भवितुमर्हन्ति भावस्य स्वत एव भङ्गुरत्वेन विनाशहेत्वनपेक्षत्वात् ।
भावो विनश्वरात्मा चेत्कृतं प्रलयहेतुभिः ।
अथाप्यनश्वरात्मा चेत्कृतं प्रलयहेतुभिः ॥ तस्माद्विजातीयकपालादिसन्ततिजननेएव मुद्गरादिकारकव्यापारः सामप्रचन्तरानुप्रवेशे सति सन्तत्यन्तरोत्पादो न पुनरभावस्य ततो निष्पतिः, सहि घटाद्वस्त्वन्तरं चेत्किमायांतं यदसौ न पूर्ववदुपलभ्यते, तद्विरोधित्वादिति चेत्प्रत्युक्तमेतत् , अनर्थान्तरत्वे तु घटस्यैव मुद्गरकार्यत्वं स्यात् ।
ननु यानि मुद्गरेण कपालानि जन्यन्ते स एव घटाभावः, हन्त तर्हि कपालस्फोटने सति घटाभावस्य विनष्टत्वाद् घटस्योन्मज्जनं प्राप्नोति किं चाकि ञ्चित्कराणि कपालानि घटस्याऽभाव इति यद्युच्यते पढस्यापि तथोच्येरन् , किञ्च कारकत्वं तेषां पूर्ववत् प्रतिक्षेप्तव्यम्, अपि चायमभावो भवनधर्मा
वा स्यादभवनधर्मा वा भवनधर्मत्वे भावोसौ भवेद् घटादिवत्, अभवन. 'धर्मा तु यद्यभावोस्ति स नित्य एवासौ तर्हि भवेत्, स चायमेकपदार्थसम्बन्धी वा स्यात्सर्वपदार्थसम्बन्धी वा तत्रैकभावसम्बन्धित्वे न तस्य नियमकारणमुत्पश्यामः, सर्वभावसम्बन्धित्वे तु सर्वपदार्थप्रतिकूलस्याभावस्य नित्यत्वा. नित्यः सन्नित्यो वा कश्चिदभावो नामास्ति ।
नन्वभावानभ्युपगमे भावानामितरेतरसङ्करादखिलव्यवहारविप्लवः प्राप्नोति, यदाह
क्षीरे दधि भवेदेवं दध्नि क्षीरं घटे पटः ।
शशे शृङ्ग पृथिव्यादौ चैतन्यं मूर्तिरात्मनि ।। इति(१) । अभावाभ्युपगमे तु भावानामितरेतराभावादसङ्कीणस्वभावत्वाद् अभावकारणकसङ्करपरिहारकथने तु सुतरां विप्लवः।
भावो भावादिवान्यस्मादभावांशादपि ध्रुवम् । असङ्कीर्णोऽभ्युपेतव्यः स कथं वा भविष्यति ॥ अन्योन्यमपि भावानां यद्यसङ्कीर्णता स्वतः । भावः किमपराद्धं वा परतश्चेत्कुतो नु सा॥ भावेभ्यो यद्यपेयेत भवेदन्योन्यसंश्रयम् । अभावान्तरजन्या चेदनवस्था दुरुत्तरा ।।
(१) पोकवात्ति केऽभावग्रन्थे श्लो० ।