________________
प्रमाणप्रकरणम्
सन्तमसे सलिलधाराविसरसिक्तसस्यमूलमभिवर्षति देवे घनपवनसंयागाभावो ऽनुमीयते यथा वार्थापत्तावुदाहृतं गृहभावेन चैत्रस्य बहिरभावकल्पनमिति ।
भागमादप्यभावस्य क चिद्भवति निश्चयः ।
चौरादिनास्तिताज्ञानमध्वगानामिवाप्ततः ।। यत्पुनरुक्तम् अनुरूपेण प्रमाणेन प्रमेयं प्रमीयते प्रमेयत्वाद्भावात्मकप्रमेयवदिति, एतदप्यप्रयोजकं साधनम्
अभावः पटलादीनां प्रत्यक्ष प्रतिपद्यते । विपक्षे वृत्त्यभावश्च लिङ्गस्य सहकारिताम् ।। पुरुषोक्तिषु दोषाणामभावश्चोपयुज्यते। सामग्यन्तर्गतात्तस्मादभावादपि भावधीः ॥ अभावश्च क्व चिल्लिङ्गमिष्यते भावसंविदः। वृष्टयभावो ऽपि वाग्वभ्रसंयोगस्यानुमापकः ।। तस्माद्युक्तमभावस्य नाभावेनैव वेदनम् । न नाम यादृशो यक्षो बलिरप्यस्य तादृशः ।।
बौद्धमतेनाभाववस्तुत्वनिराकारणम्अत्र रक्तपटाः (१)प्राहुः प्रमेये सति चिन्तनम् ।
युक्तं नाम प्रमाणस्य तदेव त्वतिदुर्लभम् ॥ अभावो नाम प्रतीयमानो न स्वतन्त्रतया घटाऽभावस्वरूपवदनुभूयते ऽपि तु देशकालप्रतियोगिविशिष्टत्वेन, तथा ह्येवं प्रतीतिरिदमिदानीमिह नास्तीति स चेत्थमवगम्यमानोऽपि यदि तैः संबद्ध एव भवेदभावः क एनं द्विष्यात्, न त्वसौ तत्संबद्धः न हि देशेन कालेन प्रतियोगिना सहाऽस्य कश्चित्संबन्धः,संयोगसमवायादेरनुपपत्तेः, न च संबन्धरहितमेव विशेषणं भवति ।
ननु विशेषणविशेष्यभाव एव संबन्धः किं संबन्धान्तरापेक्षया, मैवम्-सं. बन्धान्तरमूलत्वेन तद्वगमात् , संयुक्तं समवेतं वा विशेषणं भवति दण्डी देवदत्तो नीलमुत्पलमिति, अतश्च न वास्तवः स्वतन्त्र एव विशेषणविशेष्यभावः संबन्धः पुरुषेच्छया विपर्यस्यन्तमप्येनं पश्यामः, विशेषणमपि विशेष्यीभवति विशेष्यमपि विशेषणीभवतीति काल्पनिक एवायं संबन्धः, न वस्तुधमः) प्रति. योगिना सह नतरामभावस्य संबन्धो ऽसमानकालत्वात् , यदा हि घटो न तदा तदभावः यदा वा तदभावो न तदा घट इति) विरोधाख्यसंबन्धो भविष्यतीति चेत्को विरोधार्थः, यदि हि प्रासिद्धो घटाभाव आगत्य घटं विरुन्ध्याद्भवेदपि तद्विरोधी घटमुद्गरयोरिव, न त्वेवमस्ति तयोरसमानकालत्वात, अ
(१) रकपटा:-बौद्धाः।