________________
न्यायमअम्
यदपि--स्वरूपमात्रं दृष्टं च पश्चारिक चित्स्मरन्नपि ।
तत्रान्यनास्तितां पृष्टस्तदैव प्रतिपद्यते(१)। इत्युक्तं तदपि न युक्तम् , वस्त्वन्तरविविक्तगौरमूलकस्वरूपग्रहणसमये एव तत्रासन्निहितसकलपदार्थाभावग्रहणस्य मेचकबुद्धया सिद्धत्वाद् इदानीं तद्गतगर्गाभावास्मरणं न तस्य परोक्षस्यानुभवः, तथा हि तदानी गर्गस्तत्र ना. सीदित्येवमसौ स्मृत्वा सत्यवादी स्मरति इदानी त्वस्तित्वनास्तित्वे प्रति संशेते एवासौ गर्गस्य कुतश्चिदागतस्येदानीं तत्रास्तित्वसम्भवात् ।
ननु न पूर्व सर्वाभावग्रहणमनुभूतवानसौ गौरमूलके अननुभूयमानमपि सदस्य बलात्कल्प्यते ऽभ्यस्तविषये ऽविनामावस्मरणवत् , तथा. हि तेन तेना. नुयुक्तः तस्य तस्याभावं स्मृत्वोत्तरमसौ सर्वेभ्य आचष्टे । . ननु मेचकबुद्धया सकलाभावग्रहणे सहसैव सकलाभावस्मृतिरुपजायेत, मैवम्-यत्रैव प्रश्नादिस्मरणकारणमस्य भवति तदेव स्मरति न सर्वमविद्यमानस्मरणनिमित्तम् , अन्यत्र तु युगपदुपलब्धेष्वपि वर्णेषु युगपदन्त्यवर्णानुभवसमनन्तरं स्मरणम् , अन्यत्र तु युगपदुपलब्धेष्वपि ऽपि क्रमेण स्मरणं भ. विष्यतीति न मेचकबुद्धावयं दोषः, किं च स्वरूपमात्रं दृष्टमिति वदता भवता ऽपि मेचकज्ञानमभ्युपगतमेव मात्रग्रहणेन तदन्याभावग्रहणसिद्धः, एवं हि भवानेवाभ्यधात् ।
अयमेवेति यो ह्येष भावे भवति निर्णयः ।
नैष वस्त्वन्तराभावसंवित्त्यनुगमाइते(२)॥ इति, तस्माद् गौरमूलकावेशसमये एव तत्रासन्निहितस्य गर्गादेरभावग्रहणान्नेदानी परोक्षाभावग्रहणमभावकारणमभ्युपगन्तव्यमिति प्रत्यक्षगम्य एवा. यमभावः।
यत्पुनरननुमेयत्वम् इह घटो नास्तीति प्रकृताभावविषयमभ्यधायि तद. स्माकमभिमतम् , कश्चित्पुनरसनिकृष्टदेशवृत्तिरनुमेयो ऽपि भवत्यभावो यथा
(१)) श्लोक अभावग्रन्थे २८ स्वरूपमात्रमिति । अयमर्थः यदा हि कश्चित्प्रातः काले कञ्चिद् देशमध्यासीनस्तन व्याघ्रादिकमहष्ट्वा तदस्मरणाच्च तदभावमप्यगृहीत्वा देशमा हष्ट्वा देशान्तरगतो मध्यन्दिने पृच्छयते कश्चित्तस्मिन्देशे प्रातः काले व्या. घ्रो गजः सिंहः पाथिवा वा समागतः इति स तदा तं देवमवगतत्वात्स्मरनपि तन्त्र देशेऽन्येषां व्याघ्रादीनाममा प्रागगृहीतं दैागृहाति न च मध्यन्दिने समये प्रातः कालिकस्याभावस्यानिन्द्रियसनिकृष्टस्य सम्भवति प्रत्यक्षेण ग्रहणं तस्येन्द्रियसनिकृष्टवर्तमानविषयत्वादिति न्यायरखाकरः ।
(२) श्लोकवातिकेऽभावग्रन्थे लो० १६ । योऽयं देवदत्त एवात्र गृहे नान्या स्थाणुरेवायं न पुरुष इति सावधारणा निर्णयः स वस्त्वन्तराभावानुविद इत्यर्थः ।