________________
प्रमाणप्रकरणम्
४९
भावस्त्वसम्बद्धो ऽपि चक्षुषा प्रहीष्यते, षट्प्रकारसन्निकर्षवर्णनमपि भावाभिप्रायमेव, सम्बद्धं हि यद् गृह्यते तत् षण्णां सन्निकर्षाणामन्यतमेन सन्निक. घेणेति, प्राप्यकारित्वमपि इन्द्रियाणां वस्त्वभिप्रायमेवोच्यते, तस्मादवस्तुत्वाद. भावस्य तेन सन्निकर्षमलभमानमपि नयनमुपजनयति तद्विषयमवगममिति न दोषः, न चासंबद्धत्वाविशेषाद् देशान्तरादिषु सर्वाभावग्रहणमाशङ्कनीयम् , आश्नयग्रहणसापेक्षत्वादभावप्रतीतेः आश्रयस्य च सन्निहितस्यैव प्रत्यक्षत्वात् , अथवा संयुक्तविशेषणभावाख्यसन्निकर्षोंपकृतं चक्षरभावं ग्रहीष्यति, यथा लमवायप्रत्यक्षत्ववादिनां पक्षे समवायमिति ।
ननु तद्धीदमसिद्धम् असिद्धस्य दृष्टान्तीक्रियते, मैवम्-भवता ऽपि द्रव्यगुणयोवृत्तेरपरिहार्यत्वात् ,भेदबुद्ध्या सिद्धभेदयोरसंबद्धयोश्च द्रव्यगुणयोरदर्श. नावश्यं का चिवृत्तिरेषितव्येत्यलमर्थान्तरचिन्तनेन। ___ यत्तूक्तं संयोगसमवाययोरभावादभावो न भूप्रदेशस्य विशेषणमिति तदप्यसाधु-संयोगसमवायाभ्यामन्यस्यैव विशेषणविशेष्यभावनाम्नः संबन्धस्यादूरे एव प्रतीतिबलेन दर्शयिष्यमाणत्वात् ।
यस्तु संयुक्तविशेषणभावे सन्निकर्षे रसादिभिरतिप्रसङ्ग उद्भावितः सो ऽयं संयुक्तसमवायाख्य चक्षरूपसन्निकर्षे ऽपि समानो दोषः, संयक्तसमवायो ऽपि तर्हि मा भूत् सन्निकर्षः किं नश्छिन्नम् , तत्किमसंबद्धमेव रूपं गृह्णातु चक्षः न हि संयुक्तसमवायादन्यश्चक्षुरूपयोः सम्बन्धः ।
नन्वर्थग्रहणात्मको व्यापार एव चक्षुषः सन्निकर्षो, योग्यता वा तद्वशादेव रूपस्य तद्ग्राहकत्वमुपेयते न संयुक्तसमवायादिनेति स तर्हि व्यापारः सा वा योग्यता कथमभावमपि प्रति तस्य न स्यात्,प्राप्यकारीणि चेन्द्रियाणि कारक. त्वादिष्यन्ते सन्निकर्षश्च निह नूयते इति विप्रतिषिद्धम , तस्मात् षट्प्रकारा स. निकर्षानुगामिनी योग्यता वक्तव्या, न योग्यतामात्रे एव विश्रम्य स्थातव्यम् , यत्र योग्यता तत्र सन्निकर्षोऽप्यस्ति न तु यत्र सन्निकर्षस्तत्रावश्यं योग्यतेत्येवमभ्यपगच्छतां न रसाद्यतिप्रसङ्गचोदना धुनोति, मनोरसादेः सत्यपि सन्निकष योग्यत्वाभावादग्रहणम् ।
योग्यतामात्रवादेपि नाभावस्यास्त्ययोग्यता। भवद्भिर्वस्तुधर्मो ऽस्य को वा नाभ्युपगम्यते ॥ सर्वोपाख्यावियुक्तत्वान्नास्त्येवेत्येष वोच्यताम् । अभावश्चाक्षुषज्ञानविषयो वा ऽभ्युपेयताम् ।।
७ न्या०