________________
४८
न्यायमञ्जाम् घटो नास्तीति ज्ञानं शब्दोपमानार्थापत्यन्यतमनिमित्तमाशङ्कितुमपि युक्तमिति, सदुपलम्भकप्रमाणातीतत्वादभावस्यैव भूमिरभाव इति युक्तम् , , अपि च प्रमेयमनुरूपेण प्रमाणेन प्रमातुमुचितम्
भावात्मके प्रमेये हि नाभावस्य प्रमाणता । अभावे ऽपि प्रमेये स्यान्न भावस्य प्रमाणता ॥ म प्रमेयमभावाख्यं निहतं बोधयत्त्वया। प्रमाणमपि तेनेदमभावात्मकमिष्यताम् ॥
अभावस्य प्रमाणान्तरत्वनिराकरणम्-. अत्राभिधीयते, सत्यमभावः प्रमेयमभ्युपगम्यते प्रत्यक्षाद्यवसीयमानस्वरूपत्वान्न प्रमाणान्तरमात्मपरिच्छित्तये मृगयते ।
- अदूरमेदिनीदेशवत्तिनस्तस्य चक्षषः।
परिच्छेदः परोक्षस्य क चिन्मानान्तरैरपि। ' तथा चेह घटो नास्तीति ज्ञानमेकमेवेदम् इह कुण्डे दधीति ज्ञानवद् उभः यालम्भनमनुपरतनयनव्यापारस्य भवति तत्र भूप्रदेशमाने एव नयनजं ज्ञानमिसरत्र प्रमाणान्तरजनितमिति कुतस्त्यो ऽयं विभागः, अत्राग्निरिति युक्तो ऽय. मनक्षजः प्रतिभासः धूमग्रहणानन्तरमविनाभावस्मरणादिबुद्धयन्तरव्यवधानस. म्भवात् , इह तु तथा नास्त्येव, अव्यवहितेव हि भूप्रदेशवद् घटनास्तितावगतिरविच्छेदेनानुभूयते, न च क्षितिधराधिकरणपरोक्षाशुशुक्षणिवदनीक्षणविषयता भवति भावस्य तद्व्यापारान्वयव्यतिरेकानुविधानात्तत्प्रतीतेः, तत्र हि व्यापृताक्षो ऽपि न पर्वतवर्तिनमनलमवलोकयितुमुत्सहते, इह तु घटाभावमप. रिम्लाननयनव्यापार एव पश्यतीति चाक्षुषमभावज्ञानं तद्भावभावित्वविधानात् न च दरव्यवस्थितहुतवहरूपदर्शनपूर्वकस्पर्शानुमानवदिदमन्यथासिद्धं तद्भावभावित्वम् , तत्र हि बहुशः स्पर्शदर्शनकौशलशुन्यत्वमवधारितं चक्षुषः स्पर्शपरिच्छेदि च कारणान्तरं त्वगिन्द्रियमवगतम्, अविनाभाविता च पुरा तथाविधयो रूपस्पर्शयोरुपलब्धेत्यनुमेय एवासो स्पर्श इति युक्तं तत्रान्यथासिद्धत्वं चक्षा . पारस्य, प्रकृते तु नेहशः प्रकारः समस्ति, न चैकत्र तद्भावभावित्वमन्यथासिद्ध. मिति सर्वत्र तथा कल्प्यते, एवं हि रूपमपि चाक्षुषतामवजह्यात् , - ननु नीरूपस्यासम्बद्धस्य च चाक्षुषत्वमभावस्य कथमभिधीयते, चक्षर्ज नितज्ञानविषयत्वाचाक्षुषत्वं न रूपवत्त्वेन, रूपवतामपि परमाणूनामचक्षुषत्वा. त् , सम्बद्धमपि न सर्वचाक्षुषमाकाशस्य तथात्वे ऽपि तदभावात् , .. नन्वसम्बद्धस्य चक्षषा ग्रहणे दूरव्यवहितस्य विभीषणादेरपि चाक्षष. त्वप्रसङ्गः, उच्यते-भावे खल्वयं नियमः, यदसम्बद्धस्य चक्षुषा ऽग्रहणम् अ