________________
प्रमाणप्रकरणम्
तस्मिंस्तयोरन्यतरमपि न पश्यामः, तत्र समाने च तद्भावभावित्वे भूप्रदेशज्ञानं चाक्षुषमभावज्ञानं तु न चाक्षमिति कुतो विशेषमवगच्छामः, बाढमवगच्छा. मः, सन्निकर्षाभावादेव न ह्यसनिकृष्टं चक्षुरवगतिजन्मने प्रभवति तद्भावभावितं त्विदमन्यथासिद्धम् , विदूरदेशे व्यवस्थितस्थूलज्वालावलीजटिलज्वलनगतभास्वररूपोपलम्भानुवर्तितद्गतोष्णस्पशज्ञानवत, तत्र यथा रूपानुमीयमानस्पर्शवे. दने नयनान्वयव्यतिरेकान्वयविधानमन्यथासिद्धम् एवमिहापि भूप्रदेशोपलम्भा. विनाभाविनि कुम्भाभावग्रहणे तत्कृतमिन्द्रियान्वयव्यतिरेकान्वयविधानमिति न चाक्षुषो घटाभावप्रतिभासः, तदुक्तम्-- .
गहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । ___ मानसं नास्तिताज्ञानं जायते ऽक्षानपेक्षया ॥ (१) इति ।
अतश्चैवमसन्निहितस्यापि क चिद्ग्रहणदर्शनात् , स्वरूपमात्रकेण गौरमू. लकमुपलब्धवतः ततो देशान्तां गतस्य तत्र केन चिद् गगों ऽस्ति वा नास्ति वेति पृष्टस्य सतः स्वरूपमा गृहीतं गौरमूलकमनुस्मरतः तदानीमसनिकृष्टे ऽपि गर्गस्याभावे तदैव तस्य ज्ञानमुदेति तोन्द्रियकथा ऽपि नास्ति इति न तस्य प्रत्यक्षत्वम् , चानुमानगम्यो ऽयमभावः भूप्रदेशस्थ तद्गतघटादर्शनस्य वा लिङ्गत्वानुपत्तेः, न भूप्रदेशो लिङ्गम् अगृहीतसम्बन्धस्यापि तत्प्रतीते: अनैकान्तिकत्वाद् अपक्षधर्मत्वात् , तदधिकरणभावानन्त्येन सम्बन्धग्रहणासम्भवाच, नापि घटादर्शनं लिङ्गम्, अपक्षधर्मत्वाद्घदादर्शनं घटस्य धर्मों न तदभावस्य, घटभावप्रतीति प्रति व्याप्रियमाणत्वात्तद्धर्मत्वमस्येतिचेन्न इतरेतराश्रयप्रसङ्गात्, तद्धर्मत्वे सति लिङ्गप्रतीतिजनकत्वं प्रतीतिजन्मनि सति तद्धर्मताज्ञानमदर्शनस्य दुर्घटमेव, सिद्धायां तु किं पक्षधर्मताज्ञानेन साध्यप्रतीतेः सिद्धत्वात् ,
अपि चेदमदर्शनाख्यं लिङ्गमविदितव्याप्ति कथमभावस्यानुमापकं भवेत् , व्याप्तिग्रहणं च धूमाग्निवदुभयमिग्रहणपूर्वकम् , तत्र व्याप्तिग्रहणवेलायामेव तावत् कुतस्त्यमभावाख्यधर्मिग्रहणमिति चिन्त्यम् , तत एवानुमानादिति यद्युच्यते तदितरेतराश्रयम , अनुमानान्तरनिबन्धने तु तद्ग्रहणे ऽनवस्था, अदर्शनाख्यलिङ्गमपि दर्शनाभावस्वभावमिति तत्स्वरूपपरिक्छेदचिन्तायामपि अयमेव पन्थाः, अता दूरमपि गत्वा तदवगमसिद्धये प्रमाणान्तरमभावपरिच्छे. दनिपुणमवगन्तव्यमिति तत एव तदवगमसिद्धेर्न तस्यानुमेयत्वम् , न चेदमिह
(११) श्लोकवा० अभावग्रन्थे श्लोक २७ । दृश्यादर्शनमभावे प्रमाणं नादर्शन. मानं येन चाश्रयभूतं भूतलादिकं वह, गृहीतं तस्यैव घटो दृश्यो भवति नान्यस्य उ. न्मीलिताक्षस्यैव च तद्ग्रहणमिति दश्यादर्शनसिद्धयेऽक्षापेक्षा नाभावग्रहणाय आश्रये गृहीते प्रतियोगिनि च स्मृतेऽक्षस्थानीयेन दृश्यादर्शनसहायेन मनौवाभावज्ञानमिति नेन्द्रियस्याभावग्रहणे शक्तिः कल्पनीयेत्यर्थः ।