________________
न्यायमअर्याम् तैकघनाकार (१)वाक्यार्थानुसारेण सतामसतां वा पदानां निमित्तभावव्यवस्थापनादश्रयमाणतथाविधैकदेशादपि वाक्यात्तदर्थावगतिसम्भवात्किं श्रुतार्थापत्त्या, अत एव न सोपानव्यवहितं तस्यार्थस्य शाब्दत्वं साक्षादेव तत्सिद्धः, न च श्रूयमाणेषु निमित्तेषु कुतस्तदर्थमवगच्छामः अनवगच्छन्तश्च कीदृशं नैमित्तिक'मवकल्पयामः
- उच्यते-श्रुतेष्वपि पदेषु तेषां निमित्तभावो न स्वमहिम्ना ऽवकल्पते किंतु नैमित्तिकानुसारद्वारक इत्युक्तम् , एवमश्रुतेष्वपि भविष्यति, न यजौ करणविभक्तिं शृणुमो न स्वर्गे कर्मविभक्तिं नाग्निचिदादिषु किपप्रत्ययं नाधुनादिषु प्र. कृतिं न समासतद्धितेषु यथोचितां विभक्तिमपि च प्रतीम एव तदर्थम्, एवं वि. श्वजिदादावपि यजेतेति नैमित्तिकबलादेव स्वर्गकामादिपदार्थ प्रत्येष्यामः, नि. योगगर्भत्वाच्च विनियोगस्य लिङ्गादीनि श्रुतिकल्पनामन्तरेणापि नियोगव्यापारं परिगृह्य तेन वस्तुनि विनियोजकता प्रतिपत्स्यन्ते ।
नन्वेवं सति सर्वत्र शब्दव्यापारसम्भवात् । मुख्यस्यापि भवेत्साम्यं गौणलाक्षणिकादिभिः ।। श्रतिलिङ्गादिमानानां विरोधो यश्च वण्यते ।
पूर्वपूर्वबलीयस्त्वं तत्कथं वा भविष्यति ।। - उच्यते-सत्यपि सर्वत्र शब्दव्यापारे तत्प्रकारमेदोपपत्तेरेष न दोषः, न हि पदानां सर्वात्मना निमित्तभावमपहायैव नैमित्तिकप्रतीतिरुपप्लवते, तदपरित्या- . गाच्च तत्स्वरूपवैचित्र्यमनुवर्तत एव । ...
। अन्यथा सिंहशब्देन मतिः केसरिणीसुते ।
अन्यथा देवदत्तादौ प्रतीतिरुपजन्यते ॥ गङ्गायां मज्जतीत्यत्र गङ्गाशब्दो निमित्तताम् ।
. उपयाति यथा नैवं घोषादिवसतो तथा ॥ - श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानामप्यर्थसन्निकर्षावप्रकर्षकृतो ऽस्त्येव विशेष इति तत्रापि न विनियोगसाम्यम्। .... अतिलिङ्गादिभिर्यो ऽपि कल्पयेद्विनियोजिकाम् ।
तस्यापि तस्यास्तुल्यत्वाद्वाध्यबाधकता कथम् ।। तत्र ऋतुप्रशूनां प्रातः सवने मालम्भात् तदीयहविषां प्रयाजशेषेणाभिधारणं निर्विघ्नं सिध्यति प्राजापत्यपशूनां तु माध्यन्दिने सवने आलम्भात तदीयहविषामभिधारणार्थ प्रातः कालीन: प्रयाजशेषो धारयितव्य हति पूर्णपक्षे अभिधारणस्य शेषप्रतिपत्तिरू. पतया हविः संस्कारकत्वाभावात प्रजापत्यवपाभिधारणाय प्रयाजशेषो न धारपितव्य इति सिद्धान्तः। .: (१) प्रथमावगतोकवनाकारेति आदर्शस्यः पागसता । . .