________________
प्रमाणप्रकरणम्
१५
अथ तत्कल्पने तेषां विदूरान्तिकवृत्तिता।
स एवार्थगतो न्याय इति तत्कल्पनेन किम् ॥ ऐन्द्राग्नादिषु वैकृतेषु कर्मसु न प्राकृतविध्यन्तवचनानुमानमपि तु चोदक. व्यापारेण तस्यैव प्राप्तिः वैकृतस्य विधेः कदा चिदाकाङ्क्षा चोदक इत्युच्यते,
नन्वेवमुभयत्र तदवगमाविशेषादुपदेशातिदेशयोः को विशेषः, न नियोगावगमे कश्चिद्विशेषः, किं तूपदेशे यथोपदेशं कार्यमतिदेशे तु यथाकार्यमुपदेश इत्येव तयोविशेषः ।
मनु यथाकार्यमुपदेशे ऽनुपयुज्यमानकृष्णलचर्ववघातादेः प्राप्तिरेव न भवे. दिति को बांधार्थः, न अखण्डमण्डलविध्यन्तकाण्डप्राप्तः, न ांशांशिकया चोदकः प्रवत्तते इत्यलमनया प्रसक्तानुप्रसक्त्यागतशास्त्रान्तरगर्भकथाविस्तरप्र. स्तावनया।
इति प्रसङ्गाद् व्याख्यातं लेशतो वाक्यविन्मतम् । एतस्य युक्तायुक्तत्वपरिच्छेदे तु केवलम् ॥ श्रुताथोपत्तिरस्माकं दूषणीयतया स्थिता। तदूषणं च पूर्वोक्तवीथ्या ऽनेन.पथा ऽस्तु वा ॥
ध्वनिनिराकरणम्एतेन शब्दसामर्थ्यमहिम्ना सोऽपि वारितः । यमन्यः पण्डितमन्यः प्रपेदे कं चन ध्वनिम् ॥
विधेनिषेधावगतिविधिबुद्धिनिषेधतः । यथा
भम धम्मिश्र वीसत्थो(१) मा स्म पान्थ गृहं विश ॥ मानान्तरपरिच्छेद्यवस्तुरूपोपदेशिनाम्। शब्दानामेव सामथ्र्य तत्र तत्र तथा तथा ॥ अथ वा नेहशी चर्चा कविभिः सह शोभते । विद्वांसो ऽपि विमुह्यन्ति वाक्यार्थगहने ऽध्वनि ।। तदलमनया गोष्ठया विद्वज्जनोचितया चिरं परमगहनस्तर्कज्ञानामभूमिरयं नयः । प्रकृतमधुना तस्माद् ब्रूमो न भात्यनुमानतस्तनुरपि सतामोपत्तेविशेष इति स्थितम् ॥
(१) भ्रमधार्मिक इत्यन्त्र भ्रमणविधिना निषेधस्य मास्म पान्थेत्यत्रनिषेधेन विधेाजनेत्यर्थः ।