________________
प्रमाणपकरणम् रामवैदिकः सोऽर्थः स्यात् , कल्प्यमानस्य वचनस्य वेदादन्यत्वात् , श्रुतो ऽनु. मितश्च द्विविधः स वेद एवेति चेच् श्रौतार्थः श्रौतार्थानुमितो द्विविधः स वेदार्थ एव भविष्यतीति किं वचनसोपानान्तरकल्पनया, तेन श्रूयमाणवेदवचनप्रतिपाद्यार्थसामर्थ्य लभ्यत्वादेव तस्य वेदार्थता भविष्यति, सर्वथा न वचनैकदेशविषया श्रुतार्थापत्तिः श्रेयसी श्रुत्येकदेशकल्पनापक्षप्रतिक्षेपाच्च तदतीन्द्रियतया संब. न्धग्रहणमघटमानमिति यदुक्तं तदपि प्रत्युक्तम् , अर्थे तु सामान्येन संबन्धग्रहणमपि सूपपादम् , तत्र तत्र यज्यादेरथस्याधिकारार्थान्तरासंबद्धस्य दृष्टत्वादिति ।
प्राभाकरमतेन श्रुतार्थापत्तिनिराकरणम् । प्राभाकरास्तु दृष्टः श्रुतो वेति भाष्यं लौकिकमभिधानान्तरमेवेदमुपलब्धिव. चनमिति वर्णयन्तः श्रुतार्थापत्तिं प्रत्याचक्षते, श्रूयमाणस्यैव शब्दस्य तावत्यर्थे सामथ्येमुपगच्छन्तः तमर्थ शाब्दमेव प्रतिजानते वाक्यम्य दूराविदूरव्यवस्थि. तगुणागुणक्रियाद्यनेककारककलापोपरक्तकार्यात्मकवाक्यार्थप्रतीताविषोरिव दी. धदीर्घो व्यापारः अविरतव्यापारे च शब्दे सा प्रतीतिरुदेति तद्यापारविरतौ नोदे. ति तदुत्पादककारकाभावात् , बृद्धव्यवहारतश्च शब्देषु व्युत्पाद्यमानो लोकस्तथा. भूतवाक्यव्यवहारिणो बृद्धान पश्यन्वाक्यस्य च तादृशवाक्यार्थे सामर्थ्यमवधारयति, तदनुवर्तीनि तु पदानि तस्मिन्नैमित्तिके निमित्तानि भवन्ति, नैमित्तिकानुकूल्यपर्यालोचनया क चिदश्रूयमाणान्यपि तानि निमित्ततां भजन्ते विश्वजिदादो(१) स्वगेकामादिपवत्, क चिच्छूयमाणान्यपि तदननुकूलत्वात्परित्यज्यन्ते यथाभयं हविरात्तिमाच्छेदितिवत् ,(२) क चिदन्यथा स्थितानि तदनुरोधादन्यथैव स्थाप्यन्ते प्रयाजशेषेण हवींयाभधारयतीतिवत् (३),तस्मात्प्रथमावग
(१) विश्वजिता यजेत इत्यत्र मभूयमाणोऽपि स्वर्ग: निमित्ततां भजते इति 'स स्वर्ग: स्मात्सर्वाम् प्रत्यविशिष्टत्वात्' इति सूत्रेण मीमांसायां सिद्धान्तितम् ।
(२) मी० ६ अ० ४ पादे ६ अधिकरणे 'यस्योभर हविरातिमाच्छे दैन्द्रं पञ्च शरावमोदनं निपेत्' इत्यत्र उभया” पञ्चशराव उतान्यताविपोतिसंशये इह माति. मानं न वा हविर्मानं निमित्तं किन्तु उभयशाम्नानात्त्रितयं मिलितमिति उमया. तावेव पञ्चशराव इति पूर्वपक्षे यदि यस्य हविरात यस्योभयमार्तमिति द्वयं निमित्ती. कृत्य परशरावो विधीयेत तदा वाक्यभे: स्यात् हविरातिश्चान्यतराविविशिष्टेति तथापि नैमित्तिकं स्यादिति सिद्ध नः समीहितम् अतो नोभयं निमित्तसनिपाति किंतु हविशर्तिमानं निमित्तमिति सिद्धान्तः उभयपदं त्वेन योजनीयम् न सायं दोहातिरव निमित्तं न प्रातोहातिरेव किन्तूभयमपि परस्परानपेक्षं निमित्तम् इति ।
(३) प्रयाजशेषेण हवींव्यभिधारयतीति प्रकृतौ श्रुतम् तद्विकृतावतिदिष्टम् । विकृतयश्च वाजपेयागताः पशवः ते च द्विविधाः क्रतुपशव प्राजापत्यपशवश्व एते उभय. विधा अपि पावः प्रातः सहैवोपक्रम्यन्ते ततः सर्वेषामथ सकदेव प्रयाजा अनुष्ठीयन्ते