________________
न्यायममर्याम् कोपनैयायिककटाक्षपातभीतामिह गहने हरिणीमिव यदुपेक्ष्य गम्यते तदत्यन्त. मत्रभवतामनार्यजनोचितं चेष्टितम् ।
त्वदेकशरणां बालामिमामुत्सृज्य गच्छतः ।
कथं ते तकयिष्यन्ति मुखमन्या अपि स्त्रियः ॥ भावेनाभावकल्पना तु प्रत्यक्षपूर्विकैवार्थापत्तिः, तस्या अपि च न दुरवगमः संबन्धः, असर्वगतस्य द्रव्यस्य नियतदेशवृत्तरक्लेशेन तदितरदेशनास्तित्वाव: धारणात् , अनग्निव्यतिरेकनिश्चये च धूमस्य भवतां का गतिः, या तत्र वातों सैवेहापि नो भविष्यति, न च भूयोदर्शनावगम्यमानान्वयमात्रैकशरणतया
यस्य घस्वन्तराभावो गम्यस्तस्यैव दुष्यति ।
मम त्वदृष्टिमात्रेण गमकाः सहचारिणः॥ इति कथयितुमुचितम , अनिश्चितव्यतिरेकस्य साध्यनिश्चयाभावादिति दर्श यिष्यामः, पक्षधर्मान्वयव्यतिरेको ऽपि नागृहीतो ऽनुमानाङ्गम् , बहिरभावसिद्धौ चानुमानप्रयोगः स एव यस्त्वया दर्शितः, प्रतिपक्षप्रयोगः प्रत्यक्षादिविरुद्धत्वा. हेत्वाभास एवेत्यलं प्रसङ्गेन ।
श्रुतार्थापत्तेरनुमानानतिरिक्तत्वनिरूपणम् । श्रुतार्थापत्तिरपि वराकी नानुमानाद्भिद्यते, वचनैकदेशकल्पनाया अनु. पपन्नत्वादर्थस्य च कार्यलिङ्गस्य सत्त्वात् , यथा क्षितिधरकन्दराधिकरणं धूममवलोक्य तत्कारणमनलमनुमिनोति भवान् एवमागमात्पीनत्वाख्यं कार्यमवधा. र्य तत्कारणमपि भोजनमनु मिनोतु को ऽत्र विशेषः, तत्कार्यतया भूयोदर्शनतः प्रतिपनत्वात् , लिङ्गस्य तु क चित्प्रत्यक्षेण ग्रहणं क चिद्वचनतः प्रतिपत्तिरिति. नैष महान्भेदः,।
ननु वचनमपरिपूर्णमिति प्रतीतिमेव यथोचितां जनयितुमसमर्थम् , किं पीनो देवदत्ता दिवा न भुङ्क्त इत्यता न भवति तत्पीनताप्रतीतिः, न न भवति साकाङ्क्षा तु भवति, न च साकाङ्क्षप्रतीतिकारिणस्तस्य प्रामाण्यमिति तदेव तावत्पूरयितुं युक्तम् , तदसत्-कस्यात्र साकाक्षत्वं किं शब्दस्य किं वा तदर्थस्य उत स्वित्तदवगमस्येति शब्दस्य ताव. दर्थनिरपेतस्य न का चिदाकाङक्षा ऽनभिव्यक्तशब्दवत् , अर्थस्तु साकाक्षः सन्नर्थान्तरमुपकल्पयतु को ऽवसरो वचनकल्पनायाः, अवगम्यो ऽप्यर्थविषय एव साकारुक्षो भवति न शब्दविषयः श्रोत्रकरणकः, तस्मादवगमनैराकाङ्क्षय. सिद्धये तदर्थकल्पनमेव युक्तम् , वचनैकदेशकल्पनमप्यर्थावगतिसिद्ध्यर्थमेवेति तत्कल्पनमेवास्तु किं सोपानान्तरेण ।
यत्त कल्प्यमानस्यावैदिकत्वमर्थस्य प्राप्नोतीति, तत्र वचनकल्पनापक्षे सुत.