________________
प्रमाणप्रकरणम्
प्राभाकरमतेनापत्तरेनुमानवैलक्षण्यनिरूपणम्प्राभाकरास्तु प्रकारान्तरेणानुमाना दमत्राचक्षते अनुमाने गमकविशेषणमन्यथानुपपन्नत्वमनलं विना धूमो हि नोपपद्यते, इह तु विपर्ययः गम्यो गमकेन विना नोपपद्यते गम्यो बहिर्भावः स जीवतो गहाभावं विना नोपपद्यते गहान्नि. गतो जीवन बहिर्भवतीति,भाष्यमप्येवं योजयन्ति, दृष्टः श्रुतो वार्थो ऽर्थकल्पना अर्थान्तरं(१) कल्पयतीत्यर्थः, यतः सा कल्पना प्रमेयद्वारिका ऽन्यथा नोपपद्यते कल्पमानो ऽर्थो ऽन्यथा नोपपद्यते स च गम्य इति,
'प्रामाकरमतार्थापत्तेरनुमानवैलक्षण्यनिराकरणम्-....
एतदपि ग्रन्थवैषम्योपपादनमात्रं न तु नूतनविशेषोत्प्रेक्षणम् , गम्ये तावद्गृहोते सति तद्गतमनुपपद्यमानत्वं कथमवधार्येत गृहीते तु गम्ये किं तद्तानुपपद्यमानत्वग्रहणेन साध्यस्य सिद्धत्वात् , पुरा तद्गतमन्यथाऽनुपपधमानत्वं गृहीतमासीदिति चेद्, अहो महाननु मानाद्विशेषः इदं हि पूर्व प्रतिबन्धग्रहणमुक्तं स्यात्, __अपि च बहिर्भावस्य गहाभावं विनाऽनुपपत्तिरिति उक्ते तस्मिन्सति तस्योपपत्तिर्वक्तव्य सा च का किमुत्पत्तिईप्तिर्वा, यदि ज्ञप्तिः सा चानुमाने ऽपि, गम्यं गमकं विना नास्ति तस्मिन्सत्यस्तीति समानः पन्थाः।'
उत्पत्तिस्तु गृहाभावाद् बहिर्भावस्य दुर्भणा। प्राक सिद्धे हि गहाभावे तदुत्पादः क्षणान्तरे ॥ ' कारणं पूर्वसिद्धं हि कार्योत्पादाय कल्पते ।
तेनैकत्र क्षणे जीवन्न गृहे न बहिर्मवेत् ॥ तस्माद्यत्किंचिदेतत् । ___ एवं च यदेके ज्ञप्त्युत्पत्तिकृतमिह वैलक्षण्यमुत्प्रेक्षितवन्तो धूमेनाग्निर्गम्यते एव गृहाभावेन बहिर्भावो जन्यते ऽपीति तदपि प्रत्युक्तं भवति ।
यत्तु संबन्धग्रहणाभावादित्युक्तं तदपि न सुन्दरम् , मन्दिराशुद्धम्(२) द्वारावर्तिनस्तदुत्पत्तेः।
एतच्च स्वयमाशङ्कय न तैः प्रतिसमाहितम् ।
उदाहरणमन्यत्तु व्यत्ययेन प्रदर्शितम् ॥ गृहभावेन बहिरभावकल्पनमिति तत्रैव तदेव तदेव वक्तव्यम् , इयमभाव. पूर्विका न भवत्येवार्थापत्तिः, षडापत्तीः प्रतिज्ञायेमामभावपूर्विकामपत्तिमु.
(१) अर्थापत्तिरपि दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यत इत्यर्थकल्पना' इति शा. वरभाष्यम् । .. (२) मन्दिराशुद्धमित्यधिक प्रतिभाति ।
५न्या०