________________
न्यायमअर्याम् .. भवन्त्यपि वा शक्तिरतीन्द्रिया ऽनुमानस्यैव विषयः कार्यकारणपूर्वकत्वेन व्याप्तिग्रहणात्स्वरूपमात्रस्य च कारणत्वानिर्वहणादधिकं किमप्यनुमास्यते सा शक्तिरिति ।
शब्दनित्यत्वसिद्धौ तु या ऽर्थापत्तिरुदाहृता । तस्याः शब्दपरीक्षायां समाधिरभिधास्यते ॥
अभावपूर्वकार्थापत्तेरनुमानान्तर्भावःअभावपूर्विका ऽप्यर्थापत्तिरनुमानमेव जीवतो गृहाभावेन लिङ्गभूतेन बहिर्भावावगमात् चैत्रस्य गृहाभावो धर्मी बहिर्भावेन तद्वानिति साध्यो धर्मः जीवन्मनुष्यागृहभावस्वात्पूर्वोपलब्धैवंविधगृहाभाववत् , यथा धर्मी वह्निमा निति साध्यो ऽर्थः धूमत्वात् पूर्वोपलब्धधूमवदिति, अतश्च गृहादीनां लिङ्गत्वाशङ्कनमपाकरणं चाडम्बरमात्रम् ।
यत्पुनः प्रमेयानुप्रवेशदूषणमभ्यधायि तदपि न साम्प्रतम्-किं प्रमेयमभिमतमत्र भवतां कि सत्तामात्रम् उत बहिर्देशविशेषितं सस्वम् , सत्तामात्रं तावदागमादेवावगतमिति न प्रमाणान्तरप्रमेयतामवलम्बते, बहिर्देशविशेषितं तु सत्त्वं भवति प्रमेयं तस्य तु तदानीमनुप्रवेशः कुतस्त्यः, गृहाभावग्राहक हि प्रमाणं गृहे एव सदुलम्भकप्रमाणावकाशमपाकरोति बहिः न सदसवचिन्तां प्रस्तौति । .. वृत्तस्य जीवतो दूरे तिष्ठतः प्राङ्गणे ऽपि वा। ... गृहाभावपरिच्छेदे न विशेषो ऽस्ति कश्चन ॥ - जीवनविशिष्टस्त्वसो गृह्यमाणो लिङ्गतामश्नुते व्यभिचारनिरासात् , न च विशेषणग्रहणमेव प्रमेयग्रहणम् , जीवनमन्यदन्यच्च बहिर्भावाख्यं प्रमेयम् ।
ननुजीवनविशिष्टगृहाभावप्रतीतिरेव बहिर्भावप्रतीतिः, नैतदेवम्-जीवनविशिष्टगृहाभावप्रतीतेः बहिर्भावः प्रतीतः न तत्प्रतीतिरेव बहिर्भावप्रतीतिः, न हि दहनाधिकरणधूमप्रतीतिरेव दहनप्रतीतिः किं तु धूमादन्य एव दहन इहापि गृहाभावजीवनाभ्यामन्य एव बहिर्भावः, पर्वतहुतवहयोस्सिद्धत्वान्मत्वर्थमानंत. त्रापूर्वमनुमेयम् , एवमिहापिबहिर्देशयोगमात्रमपूर्वमनुमेयम् , यदि तु तदधिकं प्रमेयमिह नेष्यते तदा गहाभावजीवनयोः स्वप्रमाणाभ्यामवधारणादानर्थक्यम
पत्तेः, तस्मात्प्रमेयान्तरसद्भावात्तस्य च तदानीमननुप्रवेशान्न प्रमेयानुप्रवेशो दोषः, अर्थापत्तावपि च तुल्य एवायं दोषः, तत्राप्यर्थादर्थान्तरकल्पनाभ्युपगमात् , दृष्टः श्रुतो वार्थोन्यथा नोपपद्यते इत्यर्थकल्पनेत्येव ग्रन्थोपनिबन्धात् , तस्य तस्मात्प्रतीतिरिति तत्र व्यवहारस्तत्रावाच्यतत्प्रतीतो तदनुप्रवेशो दोष एव, स्वभावहताविव तबुद्धिसिद्धया तसिद्धेः प्रमाणान्तरवैफल्यादिति ।