SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ M प्रमाणप्रकरणम् वैचित्र्यकार्यबलेन कल्पनमपरिहार्यम् , तयोश्च न शक्तित्वादतीन्द्रियल्वम् , अपि तु स्वरूपमहिम्नैव मनःपरमाण्वादिवत् । ___ यदपि विषदहनसन्निधाने सत्यपि मन्त्रप्रयोगात्तत्कार्यादर्शनं तदपि न श. क्तिप्रतिबन्धननिबन्धनमपि तु सामग्रचन्तरानुप्रवेशहेतुकम् । ___ ननु मन्त्रिणा प्रविशता तत्र किं कृतं न कि चित्कृतम् , सामग्रयन्तरं तु सम्पादितं का चिद्धि सामग्री कस्य चित्कार्यस्य हेतुः, स्वरूपं तदवस्थमेवेति चेद् , यद्येवमभक्षितमपि विषं कथं न हन्यात , तत्रास्य संयोगाद्यपेक्षणीयमस्तीति चेन्मन्त्राभावो ऽप्यपेक्ष्यताम , दिव्यकरणकाले धर्म इव मन्त्रो ऽप्यनुप्रविष्टः कार्य प्रतिहन्ति, शक्तिपक्षे ऽपि वा मन्त्रस्य को व्यापारः मन्त्रेण हि शक्ते. नाशो वा क्रियते प्रतिबन्धो वा न तावन्नाशः, मन्त्रापगमे पुनस्तस्कार्यदर्शनात् , प्रतिबन्धस्तु स्वरूपस्यैव शक्तरिवास्तु स्वरूपस्य किं जातं कायौँदासी. न्यमिति चेत्तदितरतोपि समानम् , स्वरूपमस्त्येव दृश्यमानत्वादिति चेच्छक्ति. रप्यस्ति पुनः कार्यदर्शनेनानुमीयमानत्वादिति, किं च शक्तिरभ्युपगम्यमाना पदार्थस्वरूपवन्नित्या ऽभ्युपगम्येत कार्या वा नित्यत्वे सर्वदा कार्योदयप्रसङ्गः, सहकार्यपेक्षायां तु स्वरूपस्यैव तदपे क्षा ऽस्तु किं शक्त्या, कार्यत्वे तु शक्तः पदार्थस्वरूपमात्रकार्यत्वं वा स्यात्सहका. र्यादिसामग्रीकार्यत्वं वा स्वरूपमात्रकार्यत्वे पुनरपि सर्वदा कार्योत्पादप्रसङ्गः सर्व. दा शक्तरुत्पादात सामग्रीकार्यत्वेतु कार्यमस्तु किमन्तरालवर्तिन्या शक्या, अशक्तात्कारकात्कार्यं न निष्पद्यते इति चेच्छक्तिरपि कार्य तदुत्पत्तावप्येवं शस्यन्तरकल्पनादनवस्था, आह-दृष्टसिद्धये ह्यदृष्टं कल्प्यते न तु दृष्टविघा. ताय शक्त्यन्तरकल्पनायां शक्तिश्रेणीनिर्माणे एव क्षीणत्वात्कारकाणां कार्यविघातः स्यादित्येकव शक्तिः कल्प्यते तत्कुतो ऽनवस्था। अत्रोच्यते-यद्यदृष्टमन्तरेण दृष्टं न सिद्धयति काममदृष्टं कल्प्यताम् , अन्यथा ऽपि तु तदुपपत्तो किं तदुपकल्पनेन, दर्शिता चान्यथाप्युपपत्ति: क. ल्प्यमानमपि चादृष्टं तत्कल्प्यतां यदनवस्थां नावहेत धर्मादिवत् , अपि च व्यापारो ऽप्यतोन्द्रियः शक्तिवदिष्यते भवद्भिरन्यतरकल्पनयैव कार्योपपत्तेः किमुभयकल्पनागौरवेण, शक्तमव्याप्रियमाणं न कारकं कारकमिति चेतच्छ. क्तमिति, तथा कथं जानामि, कार्यदर्शनाज्ज्ञास्यामीति चेद्यपारादेव कार्य सेत्स्यति, पादुकादेव्याप्रियमाणादपि न पादपच्छेदो दृश्यते-इति चेत् प्रत्यक्ष स्तर्हि व्यापारा नातीन्द्रियो यतः कार्यदर्शनात्पूर्वमपि व्याप्रियमाणत्वं ज्ञातमायुष्मता, कायोनुमेयो हि व्यापारः कार्य विना न ज्ञायेतेव, कायें त्वन्यतरस्मादपि घटमानं नोभयं कल्पयितुं प्रभवतीत्यलं प्रसङ्गेन प्रकृतमनुसरामः । तस्मादतीन्द्रियायाः शक्तेरभावान्निविषया यथोदाहृतास्ता अर्थापत्तयः।
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy