________________
३८
न्यायमञ्जर्याम्
यत्किचिदर्थमालोक्य (च्य) न च कश्चित्प्रतीयते ॥ प्रतिबन्धो ऽपि नाज्ञातः प्रयाति मतिहेतुताम् । न सद्योजातबालादेरुद्भवन्ति तथा धियः ॥ न विशेषात्मना यत्र सम्बन्धज्ञानसम्भवः । तत्राप्यस्त्येव सामान्यरूपेण तदुपग्रहः ॥
अपि च तेन विना नोपपद्यते इति च व्यतिरेकभणितिरियं व्यतिरेकश्च प्रतीतः तस्मिन्सत्युपपद्यते इत्यन्वयमाक्षिपति, अन्वयव्यतिरेकौ च गमकस्य लिङ्गस्य धर्म इति कथमर्थापत्तिर्नानुमानम्, केवलव्यतिरेकी हेतुरन्वयमूल एव गमक इति वच्यामः ।
शक्तिनिराकरणम् ।
याश्च प्रत्यक्षादिपूर्विकाः शक्तिकल्पनायामर्थापत्तय उदाहृताः ताश्च शक्ते - रतीन्द्रियाया अभावाद् निर्विषया एव ।
स्वरूपादुद्भवत्कार्य सहकार्युपबृंहितात् ।
न हि कल्पयितुं शक्तं शक्तिमन्यामतीन्द्रियाम् ||
"
ननु शक्तिमन्तरेण कारकमेव न भवेत् यथा पादपं छेत्तुमनसा परशुरु - म्यते तथा पादुकाद्यप्युद्यम्येत शक्तेरनभ्युपगमे हि द्रव्यस्वरूपाविशेषात्सर्वस्मात्सर्वदा कार्योदयप्रसङ्गः, तथा हि विषदहनयोर्मारणे दाहे च शक्तावनिष्यमाणायां मन्त्रप्रतिबद्धायां स्वरूपप्रत्यभिज्ञायां सत्यामपि कार्योंदासीन्यं यद् दृश्यते तत्र का युक्तिः, न हि मन्त्रेण स्वरूपसहकारिसन्निध्यं प्रतिबध्यते, तस्य प्रत्यभिज्ञायमानत्वात्, शक्तिस्तु प्रतिबध्यते इति सत्यपि स्वरूपे सत्स्वपि सहकारिषु कार्यानुत्पादो युक्तः, किञ्च सेवाद्यर्जनादिसाम्येपि फलवैचित्र्यदर्शनादतीन्द्रियं किमपि कारणं कल्पितमेव धर्मादि भवद्भिरतः शक्तिरतीन्द्रिया तथा ऽभ्युपगम्यतामिति -
तदेतदनुपपन्नम्, यत्तावदुपादाननियमादित्युक्तम्-तत्रोच्यते न हि वयमद्य किञ्चिदभिनवं भावानां कार्यकारणभावमुत्थापयितुं शक्नुमः, किं तु यथा प्रवृत्तमनुसरन्तो व्यवहरामः, न ह्यस्मदिच्छया ऽऽपः शीतं शमयन्ति कृशानुर्वा पिपासाम्, तत्र च्छेदनादावन्वयव्यतिरेकाभ्यां वृद्धव्यवहाराद्वा परश्वधादेरेव कारणत्वमभ्यवगच्छाम इति तदेव तदर्थिन उपादद्महे न पादुकादीति, न च परश्वधादेस्वरूपसन्निधाने सत्यपि सर्वदा कार्योदयः स्वरूपवत्सहकारिणामध्यपेक्षणीयत्वात्सहकार्यादिसन्निधानस्य सर्वदा ऽनुपपत्तेः, सहकारिवर्गे च धर्मादिकमपि निपतति तदपेक्षे च कार्योत्पादे कथं सर्वदा तत्सम्भवः, धर्माधर्मयोश्च