________________
प्रमाणप्रकरणम् माक्षिपतीति सेयं प्रमाणैकदेशविषया श्रुतार्थापत्तिः ।
नन्वर्थादेव कथमर्थान्तरं न कल्प्यते पीवरत्वं हि नाम भोजनकार्यमुपलभ्य. मानं स्वकारणं भोजनमनलमिव धूमः समुपस्थायतु तच्च वचसा कालविशेषे निषिद्धं तदितरकालविशेषविषयं भविष्यतीति किं वचनानुमानेन, वचनमपि नादृष्टार्थमपि तु अर्थगत्यर्थमेव तदस्य साक्षादर्थस्यैव कल्प्यमानस्य को दोषो यद्यवधानमाश्रीयते, उच्यते
शब्दप्रमाणमार्गे ऽस्मिन्ननभिज्ञोऽसि बालक । प्रमाणतैव न ह्यस्य साकक्षज्ञानकारिणः ।। पुरोवस्थितवस्त्वंशदर्शनप्राप्तिनिर्वृत्ति । प्रत्यक्षादि यथा मानं न तथा शाब्दमिष्यते ॥ वाक्याथें हि समप्राङ्गपरिपूरणसुस्थिते । अभिधाय धियं नास्य व्यापारः पर्यवस्यति । तावन्तं बोधमाधाय प्रामाण्यं लभते वचः । तदर्थवाचकत्वाच्च तद्वाक्यं वाक्यमिष्यते ॥ शब्देकदेशश्रत्या ऽतस्तदंशपरिपूरणम् ।। कल्प्यं प्रथममर्थस्य कुतस्तेन विना गतिः ॥ प्रायः श्रुतार्थापत्त्या च वेदः कार्येषु पूर्यते । तत्रार्थः कल्प्यमानस्तु न भवेदेव वैदिकः ।। या मन्त्रैरष्टकालिङ्गस्तद्विधः परिकल्प्यते। श्रुतिलिङ्गादिभिर्या च कल्प्यते विनियोजिका । विश्वजित्यधिकारश्च यागकर्तव्यताश्रुतेः । उत्पत्तिवाक्यं सौर्यादावधिकारविधिपतेः॥ ऐन्द्राग्न्यादिविकारेषु कार्यमात्रोपदेशतः । यश्च प्रकृतिवद्भावो विध्यन्त उपपाद्यते ॥ तदेवमादौ सम्बन्धप्रहणानुपपत्तितः। श्रुतार्थापत्तिरेवैषा निस्सपत्नं विजम्भते ।। तया श्रुत्यैकदेशश्च सर्वत्र परिकल्प्यते । अर्थकल्पनपक्षे तु न स्याद्वेदेकगम्यता ।। इत्यर्थापत्तिरुक्तैषा षट्प्रमाणसमुद्भवा ।
अर्थापत्तेरनुमानान्तर्भावनिरूपणम् । एषा विचार्यमाण तु भिद्यते नानुमानतः ॥ प्रतिबन्धाद्विना वस्तुन, वस्त्वन्तरबोधकम् ।