________________
न्यायमञ्जर्याम् " इहैवंविधसाकाङ्क्षवचनश्रवणे सति समुपजायमानं रजनीभोजनविज्ञान प्रमाणान्तरकरणकं भवितुमर्हति प्रत्यक्षादेरसन्निधानात, न प्रत्यक्ष क्षपाभक्षण. प्रतीतितमं परोक्षत्वात् , नानुमानमनवगतसम्बन्धस्यापि तत्प्रतीतेः, उपमानादेस्तु शङ्कव नास्ति, तस्माच्छाब्द एव रात्रिभोजनप्रत्ययः शब्दश्च न श्रयमाण इममर्थमभिवदितुमलमेकस्य वाक्यस्य विधिनिषेधरूपार्थद्वयसमर्थनशून्यत्वात् , अन च राज्यादिपदानामश्रवणादपदार्थस्य च वाक्यार्थत्वानुपपत्तेः, न च विभावरीभोजनलक्षणोऽर्थः दिवावाक्यपदार्थानां भेदः संसों वा येनायमपदार्थों ऽपि प्रतीयते ।
तस्मात्कल्प्याऽगमकृतं नक्तमत्तीति वेदनम् । तद्वाक्यकल्पनायां तु प्रमाणं परिचिन्स्यताम् ।। नाध्यक्षमनभिव्यक्तशब्दग्रहणशक्तिमत् । न लिङ्गमगृहीत्वा ऽपि व्याप्तिं तदवधारणात् ।। क्क चिन्नित्यपरोक्षत्वाद्याप्तिबोधो ऽपि दुर्घटः ।
विनियोक्त्री श्रुतिर्यत्र कल्प्या प्रकरणादिभिः ।। विनियोक्त्री हि अतिः सर्वत्र प्रकरणादो वाक्यविद्भिरभ्युपगम्यते, यथोक्तं(१) विनियोक्त्री श्रुतिस्तावत्सर्वेष्वेतेषु सम्मतेति, तस्याश्च नित्यपरोक्षत्वाद् दुरधि. गमस्तत्र लिङ्गस्य प्रतिबन्धः, न च निशापदवचनस्य सत्ता ऽनुमातुमपि शक्या तस्यां साध्यायां भावाभावोभयधर्मकस्य हेतोरसिद्धविरुद्धानकान्तिकत्वेनाहेतु त्वात , न चात्र धर्मः कश्चिदुपलभ्यते, यस्तेन तद्वान्पर्वत इवाग्निमाननुमीयते, न च दिवावाक्यं तदर्थो ऽपि निशावचनानुमाने लिङ्गतां प्रतिपत्तमर्हति । ....... अश्रुते हि निशावाक्ये कथं तद्धर्मतामहः।
श्रुते तस्तुिस्तद्धर्मग्रहणे किं प्रयोजनम् ॥ दिवा वाक्यपदार्थानां तिष्ठतु लिङ्गत्वमनुपपद्यमानतया ऽपि न निशावाक्य. प्रत्यायकत्वमवकल्पते, पदार्थानां हि सामान्यात्मकत्वाद्विशेषमन्तरेणानुपपत्तिः स्याद् न वाक्यान्तरमन्तरेण, तस्माच्छ्रयमाणं वाक्यमेव तदेकदेशमन्तरेण निराकाङ्क्षप्रत्ययोत्पादकस्वव्यापारनिर्वहणं (२) सन्धिमनधिगच्छत्तदेकदेश
(१) यथोक्तमिति तन्त्रवातिके ( अ. ३ पा. ३ सु. १४) इति शेषः । " (२) निर्वहणसंधिस्तु साहित्यदर्पणे-[परि० ६ श्लो० ८० ]
बीजवन्तो मुखार्था विप्रकीर्णा यथायथम् ।
एकार्थमुपनीयन्ते यन्त्र निर्वहणं हि तत् ॥ अन्यत्रापि
मुखसंध्यादयो यन्त्र विकीर्णा बीजसंयुताः । .. महाप्रयोजनं यान्ति तनिर्वहणमुच्यते ॥