________________
प्रमाणप्रकरणम्
धूमादिलिङ्गप्रहणसमये न मनागपि तल्लिङ्गतदनुमेयदहनलिङ्गयनुप्रवेशस्पों विद्यते इति ।
· नन्वर्थापत्तावपि किं प्रमेयानुप्रवेशो न दोषः न दोष इति ब्रूमः(१), प्रमाणद्वयसमर्पितैकवस्तुविषयाभावभावसमर्थनार्थमर्थापत्तिः प्रवर्त्तमाना प्रमेयद्वयं परा मृषत्येव अन्यथा तत्संघटनायोगात् , अतश्च येयमागमादनियतदेशतया क चि. दस्तीति संवृत्तिरभूत्सैवेयं गृहाभावे गृहीते बहिरस्तीति संविदधुना सम्वृत्ता तदतो वैलक्षण्यानानुमानमर्थापत्तिः, अतश्चैवं सम्बन्धग्रहणाभावात् । .
भावाभावो हि नैकेन युगपद्वहिधूमवत् । प्रतिबन्धतया रोढुं शक्यो गृहबहिःस्थितौ ॥ अन्यथाऽनुपपत्त्या च प्रथमं प्रतिबन्धधीः। पश्चाद्ययनुमानत्वमुच्यते काममुच्यताम् ।। नन्वस्त्येव गृहद्वारे वर्तिनः सङ्गतिग्रहः ॥
भावेन भावसिद्धो तु कथमेष भविष्यति ॥ - यत्र गृहे चैत्रस्य भावमवगम्य तदन्यथाऽनुपपत्त्या तदन्यदेशेषु नास्तित्ववगम्यते तत्र देशानामानन्त्याद् दुरधिगमः प्रतिबन्धः, अनग्निव्यतिरेकनिश्चये धूमस्य का वार्तेति चेदुच्यते-तत्र धूमज्वलनयोरन्वयग्रहणसम्भवान्न व्यतिरे. कंग्रहणमाद्रियेरन् भूयोदर्शनसुलभनियमज्ञानसम्पायमानसाध्याधिगमननिर्वृतमनसां किमनग्निव्यतिरेकनिश्चयेन, इह पुनरन्वयावसायसमये एव गम्यधर्मस्य दुरबगमत्वमुक्तमनन्तदेशवृत्तित्वात् , अनुपलब्ध्या तन्निश्चय इति चेद् न, मन्दिरव्यतिरिक्तसकलमुवनतलगततदभावनिश्चयस्य नियतदेशया ऽनुपलब्ध्या क मशक्यत्वात् , तेषु तेषु देशान्तरेषु परिभ्रन्ननुपलब्ध्या तदभावं निश्चेष्यामीति चेद् , मैवम्
'गत्वा गत्वा ऽपि तान्देशान्नास्य जानामि नास्तिताम् । ___ कौशाम्ब्यास्त्वयि निष्कान्ते तत्प्रवेशादिशङ्कया । तस्मादभूमिरियमसर्वज्ञानामित्यर्थापत्त्यैव तन्निश्चयः ।
नन्विस्थममुमर्थमनुमानान्निश्चेष्यामः, देशान्तराणि चैत्रशून्यानि पै. त्राधिष्ठितव्यतिरिक्तत्वात् तत्समीपदेशवदिति, न प्रत्यनुमानोहत्वात् , देशान्तराणि चैत्राव्यतिरिक्तानि तत्समीपदेशव्यतिरिक्तत्वाच्चैत्राधिष्ठितदेशव. दिति, तस्मानियतदेशोपलभ्यमानपरिमितपरिमाणपुरुषशरीराऽन्यथानुपपत्यैव तदितरसकलदेशनास्तित्वावधारणं तस्येति सिद्धम् ।।
पीनो दिवा च नात्तीति साकाङ्तवचनश्रुतेः ।
तदेकदेशविज्ञानं श्रतार्थापत्तिरुच्यते॥ . (१) किं प्रमेयानुप्रवेश न दोष इति म हत्थनन्वित मादापुस्तकस्यः पाठः।