SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ३४ न्यायमजर्याम् भवतीति, दृष्टवचनेनोपलब्धिवाचिना गतार्थत्वे ऽपि श्रुतार्थापतेः पृथगभिधानं प्रमाणैकदेशविषयत्वेन प्रमेयविषयार्थापत्तिपञ्चकविलक्षणत्वात् । तत्र प्रत्यक्ष पूर्विका तावदर्थापत्तिः प्रत्यक्षावगतदहन संसगोंद्र तदाहाख्यकार्याऽन्यथाऽनुपपत्या वह्नेर्दाहशक्तिकल्पना, अनुमानपूर्विका देशान्तरप्राप्तिलिङ्गानुमितमरीचिमालिगत्यन्यथाऽनुपपस्या तस्य गमनशक्तिकल्पना, उपमानपूविका उपमानज्ञानावगतगवय सारूप्य विशिष्टगोपिण्डादिप्रमेयाऽन्यथाऽनुपपश्या तस्य तज्ज्ञानमाह्यत्वशक्तिकल्पना इति, तदिमास्तावदतीन्द्रियशक्तिविषयत्वादर्थापत्तयः प्रमाणान्तरम, शक्तेः प्रत्यक्षपरिच्छेद्यत्वानुपपत्तेः तदधीनप्रति-बन्धाधिगमवंधुयणानुमानविषयत्वायोगात् । अन्वयव्यतिरेकौ हि द्रव्यरूपानुवर्तिनौ । शक्तिस्तु तद्रता सूक्ष्मा न ताभ्यामवगम्यते ॥ शब्दोपमानयोस्त्वत्र सम्भावनैव नास्तीत्यर्थापत्तेरेवैष विषयः, अर्थापत्तिपूर्विका यथा शब्दकरणिकाऽर्थप्रतीत्यन्यथाऽनुपपत्त्या शब्दस्य वाचकशक्तिमवगत्य तदन्यथाऽनुपपरया तस्य नित्यत्वकल्पना सा चेयं शब्दपरीक्षायां वच्यते, भावपूर्विका तु भाष्यकारेणोदाहृता जीवतश्चैत्रस्य गृहाभावमवसाय तदन्यथाऽनुपपत्त्या बहिर्भावकल्पनेति (१) । पक्ष ननु दृष्टेन सिद्धसिद्धेरनुमानमेवेदं स्यात्, नानुमानं सामग्रयभावात्, ' धर्मतादिसामप्रचा यज्ज्ञानमुपजन्यते तदनुमानमिति तार्किकस्थितिः, सा चेह नास्ति बहिर्भावविशिष्टे चैत्रे चैत्राभावविशिष्टे बहिर्भात्रे ऽनुमेये कस्य लिङ्गत्वमिति चिन्त्यम् (२), गृहाभावविशिष्टस्य वा चैत्रस्य चैत्राभावविशिष्टस्य वा . गृहस्य गृहचैत्राभावस्य वा चैत्रादर्शनस्य वा, न चैषामन्यतमस्यापि पक्षधर्मत्वमस्ति, न हि गृहं वा चैत्रो वा तदभावो वा तददर्शनं वा चैत्रस्य धर्मः तद्बहिर्भावस्य वेत्यपक्षधर्मत्वादन्यतमस्यापि न लिङ्गत्वम्, अभाव अपि च प्रमयानुप्रवेशप्रसङ्गादपि नेदमनुमानम्, तथा ह्यागमावगतजीवनस्य गृहाभावेन चैत्रस्य बहिर्भावः परिकल्प्यते इतरथा मृतेनानैकान्तिको हेतुः स्यात्, अभावश्च गृहीतः सन् बहिर्भावमवगमयति नागृहीतो धूमवतं, ग्रहणं च सकलसदुपलम्भकप्रमाणप्रत्यस्तमयपूर्वकमिह तु सदुपलम्भक मस्त्येव जीवनग्राहि प्रमाणम्, जीवनं हि क्व चिदस्तित्वमुच्यते, अप्रत्यस्तमिते तुसदुपलम्भके प्रमाणे कथमभावः प्रवर्त्तते इति प्रवर्तमान एवासौ सदुपलम्भकं प्रमाणं पृथग्विषयमुपस्थापयति बहिरस्य भावो गृहे त्वभाव इति, तेन जीवतो बहिर्भात्रव्यवस्थापन पूर्व कगृहाभावग्रहणापपत्तेः प्रमेयानुप्रवेशः, अनुमाने तु ( १ ) शावर भाष्ये अ० १ पा० १ सू० ५ अर्थानुवादोऽयम् । (२) लिङ्गस्वमित्यचिन्त्यमिति आदर्श पुस्तकस्थः पाठेाऽसंगतः ।
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy