________________
प्रमाणप्रकरणम्
अन्ये तु मन्यन्ते नोपायभेदात् प्रतीतिभेदो भवत्यपि तु विषयभेदादेव सनिकृष्टविप्रकृष्टग्रहणे ऽपि विषयौ भिद्यते दुरात्सामान्यधर्ममात्रविशिष्टस्य धर्मिणो ग्रहणमदूरात्तु सकलविशेषसाक्षात्करणम् , यदिमाः प्रत्यक्षानुमानशब्दपमितयः पमेयभेदाद्भिद्यन्ते।
विशेषधर्मसंबद्धं वस्तु स्पृशति नेत्रधीः। व्याप्तिबोधानुसारेण तद्वन्मात्रं तु लैङ्गिकी ॥ .....
शब्दास्वतदवच्छिन्ना वाच्ये सजायते मतिः । ....... शब्दानुवेधशून्या हि न शब्दार्थे मतिभवेत् ॥ ____ कथं तर्हि तेषां संप्लवः सर्वत्र विषयभेदस्य दर्शितत्वात् सत्यम्-धर्म्यभिपायेण संप्लवः कथ्यते, इमौ तु पक्षौ विचारयिष्येते, सर्वथा तावदस्ति पमाणानां संप्लव इति सिद्धम् ।
तदुदाहरणं तु भाष्यकारः पदर्शितवान् , अग्निराप्तोपदेशात्प्रतीयतेऽमुत्रेति प्रत्यासीदता धूमदर्शनेनानुमीयते प्रत्यासन्नतरेण उपलभ्यते इत्यादि, क चित्त व्यवस्था दृश्यते यथा अग्निहोत्रं जुहुयात् स्वर्गकाम इत्यस्मदादेरागमादेव ज्ञा. नं न प्रत्यक्षानुमानाभ्याम् , स्तनयित्नुशब्दश्रवणात्तद्धेतुपरिज्ञानमनुमानादेव. न प्रत्यक्षागमाभ्याम् , स्वहस्तौ द्वौ इति तु प्रत्यक्षादेव प्रतीतिर्न शब्दानुमा. नाभ्यामिति, तस्मास्थितमेतत् प्रायेण प्रमाणानि प्रमेयमभिसंप्लवन्ते क चित्त प्रमेये व्यवतिष्ठन्तेऽपीति ।
इत्युद्धृताखिलपरोदितदोषजातसम्पातभीतिरिह संप्लव एष सिद्धः । सर्वाश्च सौगतमनःसु चिरप्ररूढ़ा
भग्नाः प्रमाणविषयद्वयसिद्धिवान्छाः ।। एवं तावन्यनत्वं सङ्ख्यायाः परीक्षितम् । मतान्तरेण चतुर्विधप्रमाणातिरिक्तप्रमाणपरिगणनम्- .
आधिक्यमिदानीं परीक्ष्यते-तत्रार्थापत्त्या सह प्रत्यक्षादीनि पञ्च प्रमाणनीति प्रभाकरः, अभावेन सह षडिति भाट्टः, सम्भवैतिह्याभ्यामष्टाविति के चित, अशक्य एव प्रमाणसङ्ख्यानियम इति सुशिक्षितचार्वाकाः,
भाट्टमतेनार्थापत्तिनिरूपणम् - तत्र भाट्टास्तावदित्थमर्थापत्तिमाचक्षते दृष्टः श्रुतो वार्थो ऽन्यथा नोपपद्यते इत्यर्थान्तरकल्पना ऽर्थापत्तिः, दृष्ट इति प्रत्यक्षादिभिः पञ्चभिः प्रमाणैरुपलब्धः श्रुत इति कुतश्चन लौकिकाद्वैदिकाद्वा शब्दादवगतो ऽर्थस्ततो ऽन्यथा ऽनुपपद्यमानादर्थान्तरकल्पना ऽर्थापत्तिरित्येवं षट्प्रमाणप्रभवत्वेन षड्विधा ऽसौ
५ न्या०